________________
षड्दर्शनसमुच्चये
[ का० ५५. ९३०१
६ ३०१. तथाशब्दः प्रागुक्तनवतत्त्वाद्यपेक्षया समुच्चये, वाक्यस्य सावधारणत्वात्, द्वे एव प्रत्यक्षे' परोक्षे प्रमाणे मते - सम्मते ।
६ ३०२. यदपि परैरुक्तं द्वयातिरिक्तं प्रमाणसंख्यान्तरं प्रत्यज्ञायि, तत्रापि यत्पर्यालोच्य - मानमुपमानार्थापत्त्यादिवत् प्रमाणतामात्मसात्करोति तदनयोरेव प्रत्यक्षपरोक्षयोरन्तर्भावनीयम् । यत्पुनर्विचार्यमाणं मीमांसकपरिकल्पिताभावत् प्रामाण्यमेव नास्कन्दति न तेन बहिर्भूतेनान्तर्भूतेन वा प्रयोजनम्, अवस्तुत्वादित्यपकर्णनीयम् । तथाहि - प्रत्यक्षानुमानागमोपमानार्थापत्यभावसम्भवैतिप्रातिभयुक्त्यनुपलब्ध्यादीनि प्रमाणानि यानि परे प्रोचुः, तत्रानुमानागमौ परोक्षप्रकारावेव विज्ञातव्यो ।
६ ३०३. 'उपमानं तु नैयायिकमते कश्चित्प्रेष्यः प्रभुणा प्रेषयाञ्चक्रे ' गवयमानय' इति स अनुमानज्ञान साथ ही साथ हुए हैं। ऐसा न माना जाय तो लोकव्यवहारका अभाव हो जायेगा । अत: प्रत्यक्ष और परोक्षमें किसी प्रकारका ज्येष्ठ-कनिष्ठ भाव नहीं है ।
३०१. तथा शब्द पहले कहे गये जीवादि नवतत्त्वोंके समुच्चयार्थं है। सभी वाक्य निश्चयवाचक होते अतः ये प्रत्यक्ष और परोक्ष दो ही प्रमाण हैं, तीसरा नहीं ।
३०२. जिन प्रतिवादियोंने प्रमाणकी इन दोसे अतिरिक्त संख्याएँ मानी हैं उनका विचार करके जो अर्थापत्ति उपमान आदिकी तरह प्रमाणकोटिमें आते हैं- प्रमाणभूत साबित होते हैं उनका इन्हीं प्रत्यक्ष और परोक्षमें अन्तर्भाव कर लेना चाहिए। जो विचार करनेपर भी मीमांसकके द्वारा माने गये अभाव प्रमाणकी तरह प्रमाण ही सिद्ध न हों उनके अन्तर्भाव या बहिर्भावकी चर्चा ही निरर्थक है, क्योंकि ऐसे ज्ञान तो अप्रमाण ही होंगे अतः उनकी उपेक्षा ही करनी चाहिए | परवादी, प्रत्यक्ष, अनुमान, आगम, उपमान, अर्थापत्ति, अभाव, सम्भव, ऐतिह्य, प्रातिभ, युक्ति और अनुपलब्धि आदि अनेक प्रमाण मानते हैं । इन प्रमाणोंमें से अनुमान और आगम तो परोक्ष प्रमाणके ही भेद हैं ।
$ ३०३. नैयायिक आदि उपमानको प्रमाण मानते हैं । नैयायिक उपमानका स्वरूप इस प्रकार बताते हैं - किसी राजाने अपने नोकरको गवय - रोज लाने के लिए भेजा । बेचारा नोकर
३१४
१. “अर्थसंवादकत्वे च समाने ज्येष्ठतास्य का । तदभावे तु नैव स्यात् प्रमाणमनुमा दिकम् - "
तवसं. का. ४६० । न्यायवि टी. १, ३ । अष्टश. अष्टस. पृ. ८० । प्रमाणमी. पृ. ७ । २. परोक्षप्रमाणे आ. क. । ३. साक्षात्करो- आ. क. । ४. प्रमाणभावमेव भ. २ । ५ नि परे यानि प्रो-म. २ । ६. " प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् ।" न्यायसू. १|१| ६ | "प्रतिद्धसाधर्म्यादिति - प्रसिद्धं साधम्यं यस्य, प्रसिद्धेन वा साधर्म्यं यस्य सोऽयं प्रसिद्धसाधर्म्या गवयस्तस्मात् साध्यसाधनमिति समाख्यासंबन्धप्रतिपत्तिरुमानार्थः । किमुक्तं भवति । आगमाहित संस्कारस्मृत्यपेक्षं सारूप्यज्ञानमुपमानम् । यदा ह्यनेन श्रुतं भवति यथा गौरेवं गवय इति प्रसिद्धे गोगवयसाधम्र्म्यं पुनर्गवा साधम्यं पश्यतोऽस्य भवति अयं गवय इति समाख्यासंबन्धप्रतिपत्तिः ।" न्यायचा. पृ. ५७ । " प्रसिद्धसाधर्म्यात् इत्यत्र प्रसिद्धिरुभयी श्रुतिमयी प्रत्यक्षमयी च । श्रुतिमयी यथा गौरेवं गवय इति । प्रत्यक्षमयी च यथा गोसादृश्य विशिष्टोऽयमीदृशः पिण्ड इति । तत्र प्रत्यक्षमयी प्रसिद्धिरागमाहित स्मृत्यपेक्षा समाख्यासंबन्धप्रतिपत्तिहेतु: ।.... तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदमागमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ।" –न्यायवा. ता. पृ. १९ । “ अद्यतनास्तु व्याचक्षते - श्रुतातिदेशवाक्यस्य प्रमातुरसिद्धे पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानमिन्द्रियजं संज्ञासंज्ञिसंबन्धप्रतिपत्तिफलमुपमानम् तद्धीन्द्रियजनितमपि घूमज्ञानमिव तदगोचरप्रमेयप्रमितिसाघनात् प्रमाणान्तरम् । श्रुतातिदेशवाक्यो हि नागरकः कानने परिभ्रमन् गोसदृशं प्राणिनमवगच्छति, ततो वनेचरपुरुषकथितं यथा गौस्तथा गवय इति वचनमनुस्मरति स्मृत्वा च प्रतिपद्यते अयं गवयशब्दवाच्य इति । तदेत्संज्ञासंज्ञिसंबन्धज्ञानं तज्जन्यमित्युपमानफलमित्युच्यते ।" पृ. १४२ । न्यायकलि. पृ. ३ । ७. कश्चित्प्रेष्यः भ. २ ।
न्यायमं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org