________________
-का० ३२ $ १३१] नैयायिकमतम् ।
१३७ $ १३१. अत्रानुक्तमपि किंचिन्निगद्यते । अर्थोपलब्धिहेतुः' प्रमाणम्। एकात्मसमवायिकानान्तरवेद्यं ज्ञानम्, प्रमाणादभिन्न फलं, पूर्व प्रमाणमुत्तरं तु फलम् । स्मृतेरप्रामाण्यम्, परस्परविभक्तौ सामान्यविशेषौ नित्यानित्यत्वे सदसदंशौ च, प्रमाणस्य विषयः पारमार्थिकः, तमश्छाये अद्रव्ये, आकाशगुणः 'शब्दोऽपौद्गलिकः, संकेतवशादेव शब्दादर्थप्रतीतिर्न पुनस्तत्प्रतिपावन
६१३१. कारिकामें नहीं कही गयी कुछ विशेष बातें भी कहते हैं-अर्थोपलब्धिमें जो साधकतम कारण होता है उसे प्रमाण कहते हैं। उसी आत्माके द्वितीयज्ञान (अनुव्यवसाय) के द्वारा जिसका परिज्ञान होता है ऐसा प्रथमज्ञान प्रमाणका फल है। फलज्ञान प्रमाणसे भिन्न होता है। पूर्व-साधकतम कारणको प्रमाण तथा उत्तर-कार्यको फल कहते हैं। स्मृतिज्ञान अनुभवके द्वारा गृहीत अर्थको ही ग्रहण करनेके कारण अप्रमाण है। स्मृति पूर्वानुभवके परतन्त्र है। सामान्य और सामान्याश्रय द्रव्य गुण कर्मरूप विशेष परस्पर अत्यन्त भिन्न हैं। नित्य द्रव्य तथा अनित्यद्रव्य पृथक्-पृथक हैं । भाव तथा अभाव दोनों पृथक् पदार्थ हैं। ये ही सब प्रमाणके विषय हैं । तम और छाया द्रव्यरूप न होकर तेजोऽभाव रूप हैं । शब्द आकाशका गुण है, पौद्गलिक नहीं है। संकेतके
१. "उपलब्धिहेतुश्च प्रमाणम् ।" -न्यायमा. २११।११। २. "ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात घटादिवत ।" -प्रश. व्यो, पृ. ५२९ । "विवादाध्यासिताः प्रत्ययान्तरेणव वेद्याः प्रत्ययत्वात् । एवं प्रमेयत्वगुणत्वसत्त्वादयोऽपि प्रत्ययान्तरवेद्यत्वहेतवः प्रयोक्तव्याः।" -विधिवि-न्यायकणि. पृ. २६७ । "करणं हि प्रमाणमुच्यते प्रमीयतेऽनेन इति । न च क्रियैव क्वचित् करणं भवति, क्रियायां साध्यायां कारकं किमपि करणमुच्यते यथा दात्रेण चैत्रः शालिस्तम्ब लुनाति इति कर्तृकर्मकरणानि क्रियातो भिन्नान्युपलभ्यन्ते तथेहापि चक्षुषा घटं पश्यतीति दर्शनक्रियातः पृथग्भाव एव तेषां युक्तो न दर्शनं करणमेव इति, प्रमा प्रमाणमिति तु फले प्रमाणशब्दस्य साधुत्वाख्यानमात्रम् कृतिः करणमितिवत्" " तेन चक्षुरादे ज्ञानक्रियामुपजनयतः करणत्वं ज्ञानस्य फलत्वमेवेति युक्तः तथाव्यपदेश;"""-न्यायमं. पृ. ७० । स्वातिरिक्तेत्यादिना शंकरस्वामी प्रमाणयति-स्वातिरिक्तक्रियाकारि प्रमाणं कारकत्वत: वास्यादिवत्॥१३५३॥"-तस्वसं.। ३. “यदा निर्विकल्पकं सामान्यविशेषज्ञानं प्रमाणम् तदा द्रव्यादिविषयं विशिष्टं ज्ञानं प्रमितिः इत्यर्थः । यदा निर्विकल्पकं सामान्यविशेषज्ञानमपि प्रमारूपमर्थप्रतीतिरूपत्वात् तदा तदुत्पत्तावविभक्तमालोचनमात्र प्रत्यक्षम् ""विशेषज्ञानं हि विशेषज्ञानस्य फलम् विशेषणज्ञानं न ज्ञानान्तरफलम्""यदा निर्विकल्पकं सामान्यविशेषज्ञानं फलं तदा इन्द्रियार्थसन्निकर्षः प्रमाणम, यदा विशेष्यज्ञानं फलं तदा सामान्यविशेषालोचनं प्रमाणम् इत्युक्तं तावत् । सम्प्रति हानादिबुद्धीनां फलत्वे विशेष्यज्ञानं प्रमाणमित्याह"."-प्रश. कन्दली पृ. १९९। मीमांसाइको. सू. ४ श्लोक ७२-७३ । ४. "कथं तर्हि स्मृतेर्व्यवच्छेदः ? अननुभवत्वेनैव""न च स्मृतिहेती प्रमाणाभियुक्तानां महर्षीणां प्रमाणव्यवहारोऽस्ति पृथगनुपदेशात् । -न्यायकुसु. ४।। ५. "द्रव्यगुणकर्मनिष्पत्तिवैधादभावस्तमः।" -वैशे. सू. ५।।१९। "उद्भतरूपवद्यावत्तेजःसंसर्गाभावस्तमः।" वशे. उप. ५।२।२०। "कि पुरुषवच्छायापि गच्छति आहोस्वित आवारकद्रव्ये संसर्पति आवरणसन्तानादसन्निधिसन्तानोऽयं तेजसो गृह्यत इति । सर्वतः खलु द्रव्येण यस्तेजोभाग आवियते तस्य तस्यासंनिधिरेवावच्छिन्नो गृह्यते इति ।"-न्यायमा. २१८ । "भासामभावरूपत्वात छायायाः।"-प्रश, व्यो. पृ. ४५। "तस्मादभाव एव छाया न तु सतीति सिद्धम् ।" -न्यायवा. ता. टी. पृ. ३४२ । प्रश. किर. पृ. १९ । ६. "शब्दोऽम्बरगुणः ।"-प्रश. भा.,-व्यो. पू. ६४५।
. १८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org