________________
७४
षड्दर्शनसमुच्चये
नैरात्म्य भावनातो ज्ञानसंतानोच्छेदो मोक्ष इति ।
१९४. योगाचारमतं त्विदम् - विज्ञानमात्रमिदं भुवनम् । नास्ति बाह्योऽर्थः । ज्ञानाद्वैतस्यैव तात्विकत्वात् । अनेके ज्ञानसंतानाः । साकारो बोधः प्रमाणम् । वासनापरिपाकतो नीलपीतादिप्रतिभासाः । 'आलयविज्ञानं हि सर्ववासनाधारभूतम् । आलयविज्ञान विशुद्धिरेवापवर्ग इति ।
६ ९५. माध्यमिकदर्शने तु - शून्यमिदम् । 'स्वप्नोपमः प्रमाणप्रमेययोः प्रविभागः । " मुक्तिस्तु शून्यतादृष्टेः तदर्थं शेषभावना" [ प्र. वा. ११२५६ ] इति । केचित्तु माध्यमिकाः रूप, रस, गन्ध तथा स्पर्शके परमाणु एवं ज्ञान ये ही तत्त्व हैं। शब्दका वाच्य विधिरूप न होकर अन्यापोहात्मक है । ज्ञान पदार्थसे उत्पन्न होकर तथा पदार्थके आकारको धारण करके अर्थका परिच्छेद करता है । नैरात्म्य भावनासे ज्ञानको सन्तानका सर्वथा उच्छेद होना मोक्ष है ।
$ ९४. योगाचारका मत इस प्रकार है - यह संसार केवल विज्ञान रूप ही है । बाह्य अचेतन अर्थकी सत्ता नहीं है, क्योंकि ज्ञानाद्वैत हो एक मात्र सत् है, तात्त्विक है । ज्ञानसन्तान अनेक हैं । साकारज्ञान प्रमाण है । अनादिकालीन विचित्र वासनाओं के परिपाकसे ही ज्ञानमें नील-पीत आदि अनेक आकारोंका प्रतिभास होता है। आलयविज्ञान - अहंरूपसे भासमान ज्ञान ही सभी वासनाओंका आधार होता है । इस आलय विज्ञानकी विशुद्धिको ही मोक्ष कहते हैं ।
९५. माध्यमिकका मत इस प्रकार है - यह जगत् शून्य है, प्रमाण और प्रमेयका विभाग स्वप्नकी तरह ही है । " शून्यतादर्शन से ही मुक्ति होती है, अन्य समस्त क्षणिकत्वादि भावनाएँ शून्यता के पोषण के लिए ही हैं । कुछ माध्यमिक ज्ञानको स्वाकार मानते हैं। कोई बाह्य पदार्थ
Jain Education International
[ का० ११.९९४
१. “ मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावना ।” प्र. वा. १२५५ । "तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी । हन्ति सानुचरां तृष्णा सम्यग्दृष्टिः सुभाविता || १ | २१३ ॥ तत्र सत्यचतुष्टय एवं सम्यग्दृष्टिनैरात्म्यदृष्टिः, तद्विरुद्धार्थतत्त्वाकारानुरोधिनी तेषां स्थिरसुखाद्याकाराणामविद्यारोपितानां विरुद्धोऽर्थस्तस्य तत्त्वानि भूता आकारा अनित्या सुखादयः षोडशाकारास्ताननुरोद्धुं शीलं यस्याः सा तथा सुभाविता | सादर निरन्तर दीर्घकालाभ्यासप्रास वैशद्या हन्ति तृष्णां जन्महेतुं सानुचरां मात्सर्यादिपरिवारां ।" - प्र. वा., मनो. १।२७३ । २. - दं भुवनं विज्ञानमात्रं । नास्ति बा-भ. २ । ३. “अनादिवासनासङ्ग विधेयो कृतचेतसाम् । विविध । प्रतिभासोऽयमेकत्र स्वप्नदर्शिनाम् ।" प्र. वार्त्तिकालं. पू. ३९७ । ४. “तरङ्गा ह्युदधेर्यद्वत् पवनप्रत्ययोदिताः । नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते ॥५६॥ आलयोस्तथा नित्यं विषयपवनेरितः । चित्रैस्तरङ्गविज्ञानैः नृत्यमानः प्रवर्त्तते ॥५७॥ " लंकावतार पृ. २७१ । " तत्रालयविज्ञानं नामाहमास्पदं विज्ञानम् । नीलाद्युल्लेखि च विज्ञानं प्रवृत्तिविज्ञानम् । यथोक्तम् — तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत्स्यात् प्रवृत्तिविज्ञानं यनीलादिकमुल्लिखेत् ।” - सर्वद. सं. पृ. ३७ । ५. " तथता भूत कोटिश्च निमित्तः परमार्थिकः । धर्मधातुश्च पर्यायाः शून्यतायाः समासतः ॥” - मध्यान्तवि. सू. टी. पृ. ४१ । ६. “ यथा मायादयः स्वभावेन अनुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादिविज्ञानगम्याश्व लोकस्य । एवमेतेऽपि लोकप्रसिद्धिमात्रेण उत्पादादयः स्वभावेन अविद्यमाना अपि भगवता तथाविधविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति । अत एवोक्तम् ( समाधिराजसूत्रे ) 'यथैव गन्धर्वपुरं मरीचिका यथैव माया सुविनं यथैव ।' स्वभावशून्या तु निमित्तभावना । तथोपमान् जानय सर्वधर्मान् ।” माध्यमिकवृ. संस्कृत. पृ. १७७ । " यत्तूक्तं भगवता - मायोपमा धर्मा यावत् निर्वाणोपमा इति ।" महायानसूत्रालं. पृ. ६२ । “ एतदुक्तं भगवताअनुत्पन्नाः सर्वभावा मायोपमाश्च इति ।" - लंकाववार सू. द्वि. भा. पृ. १११ । " यथा माया यथा स्वप्नो गन्धर्वनगरं यथा । तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतः ॥" माध्यमिकवृ. संस्कृत. ३४ ।
For Private & Personal Use Only
www.jainelibrary.org