________________
( २०८) मिथ्याप्रवादजलपूर्णतटाकमग्न
मेकान्तपक्षधुतलक्षणलक्षिताक्षम् । दूरीकरोति मुनिपास्तमयं द्विजिह्व
त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७॥ सूरीश ! सूरभव ! भूतभयंकराघ, . __ भव्यांगिनां निजकृतं सहसा जगत्याम् ।
उच्चण्डचण्डकरकान्तिकदम्बकेन, - त्वत्कीर्तनात्तम इवाशुभिदामुपैति ॥ ३८ ॥ साहित्यशर्कररसामृतरितायाः, . सन्न्यायभंगनयनक्रसुदुस्तरायाः। पारं परं गतभयं हि सुरापगायाः, ___ त्वत्पादपङ्कजवनायिणो लभन्ते ॥ ३९ ॥ आचार्य ! वर्यबहुशिष्यगणैर्वृतस्य,
जैनेन्द्रशासनविलोपिजनस्य चाये। शास्त्रार्थमत्र भवदीयसुशिष्यवर्गाः, ___ त्रासं विहाय भवतः स्मरणाद्वजन्ति ॥ ४० ॥ सिद्धौषधिं समुपिलभ्य मुने! भवन्तः, ___ कर्माग्नितापपरितापितदेहयष्टीम् । संत्यज्य मोक्षरमणीरमणत्वमाप्य,
मा भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥ सम्यक्त्वमाप्य शिवमार्गनिबन्ध नं भो,
लोकेशलोकसमभावविभूषितांग ! . . . . . .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org