________________
(२०७) मन्येऽस्ति नाथ ! भुवने विमलं हि भावि,
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ वाणीं सुधारसझरी, शिवमार्गयानं, ___ सर्वेऽन्यधर्मनिरता अपि ते निपीय । मत्वाहि मुक्तिरमणीरमणानि पाद
पद्मानि तत्र विबुधाः परिकल्पयन्ति ।। ३२ ।। सामाजिकोन्नतिपरा मनसः प्रवृत्ति
र्याता यथो तव तथा न मुने ! परस्य । यादृग् विभो भवति निश्चलता ध्रुवस्य,
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥ ३.३ ॥ पूजाविरोधिनिपुणार्यसमाजभाजां, . ___गन्तुं भवार्णवतले तरिभञ्जकानाम् । एतादृशं सुपथवर्तनलोपकानां,
दृष्ट्वा भयं भवति नो भवदा श्रितानाम् ॥ ३४॥ अध्यात्मवेषमिषसंयमिनाममाजां,
बालादिवृद्धवयसां खलु वंचकानाम् । माध्वीकतुल्यवचसां कुविकल्पजालं, ___ नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ वामाविलासवरभोगभरेन्धनोधै
वृद्धिं गतं भविनरोषितबोधिबीजम्, कामानलं मुनिवरेश्वर! चित्तजातं, ..'
त्वन्नामकीर्तनजलं समयत्यशेषम् ॥ ३६॥ :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org