________________
(२०६), आनन्दसरिचरणाब्जमधुव्रताय,
विश्वार्तिवारणसमर्पितजीवनाय । दुर्बोधसुप्तनरनेत्रविभाकराय,
तुभ्यं नमो जिन ! भवोदाधशोषणाय ॥ २६ ॥ क्रोधाग्निधूमभरशोणितनेत्रयुम्मो, ___ मायोरगीविषविकारविदूषितात्मा । मानोदकोक्षितवपु र्नु मया जगत्यां, ___ स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७ ॥ नित्यं व्रतादिभवकान्तिकदम्बकेन,
देदीप्यमानकचपुञ्जविभाग ! नाथ ! । आस्यं विभाति भवतोऽत्र महाप्रकाशं,
बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥ २८ ॥ अज्ञानगाढतिमिरं तव गोविलासैः,
बालस्य वृद्धवयसः करपीडनात्म। नाशं गतं व्यसनदं समजीवबंधो ! ___ तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ।। म्लानंयुगावनितलं विमलं विधाय,
शुभ्रं यशो धवलयत् सुरलोकमार्गम् । मन्ये गतं मुनिवरेश ! तवैव शीघ्र,
मुच्चैस्तटं सुरगिरेवि शातकौम्भम् ॥ ३० ॥ रत्नत्रयं हृदयमध्यविराजमान,
संसारसागरशरण्य ! मुने ! तवेदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org