________________
( २०५) सर्वांगसुंदरतया जितकामदेव ! . त्रैलोक्य मोद जनने सुररत्नतुल्यः । चित्रं तदेव तव यन्न रमाविलासः, ___ कश्चिन्मनोहरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ जैनेन्द्रशासनमिदं प्रसभं प्रकाशं, : __स्थाने निनाय सुखदं नु तवैव वाणी । आलस्यदं प्रमददं तरणिं तमोद, - प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ २२ ॥ संसारजीवभरचित्तचकोरचन्द्रा__ चारं विचारमखिलं चरणं त्वदीयम् । शुद्धां गिरं च कथयन्ति निरीक्ष्य लोका,
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ २३ ॥ देदीप्यमानकरुणानिलयं पवित्रं,
स्याद्वादभङ्गनयमानसराजहंसम् । त्वामेव सम्यगुपलभ्य महाप्रभावं,
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ वैधव्यमूलरुगरंतुददुःखभाजा
मज्ञानसिन्धुनलपूरसमाप्लुतानां । विश्रामधामकरणादबलाजनानां,
व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥ १ भवान्तरे भवमध्ये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org