SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ (२०१) संचाराप्तप्रशंसो मृदुतरवचनापूर्वपीयूषवर्षी । नक्षत्रैर्वा स्वशिष्यैः सह चरणविधिप्राप्तसंपूर्णदाक्ष्यैश्चन्द्रो वा वल्लभार्यो जनकुमुदगणं बोधयन् सन्विराज्यात् ॥ इति हृदय-शीतलता कृतिचन्दनं सुमुनिसेवकसाधितवन्दनम् । इति मया रचितं बुधनन्दनं विजयवल्लभसूर्यभिनन्दनम् ॥ इति श्रीयोधपुरवास्तव्येन आशुकवि-कविभूषणकविराजेन पण्डित. नित्यानन्दशास्त्रिणा रचितं विजयवल्लभाभ्युदयं समाप्तम् । भक्तामरपादपूर्तिरूपासूरिराजस्तुतिः ॥ वर्ण्य कथं लवपुरं ननु यत्र शान्ति दत्त्वा पदं प्रतिनिधेर्हरिविष्टरस्थः । आशंसयद् विजयवल्लभसूरिमादा___ वालम्बनं भवजले पततां जनानाम् ॥ १ ॥ यः संघदत्तपदआईतभक्तिवीरो, ____ मात्सर्यरोषमदमोहमहीषुसीरः । स्वार्थ विहाय परमार्थरतं कवींद्रम, स्तोण्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ श्रीवीरशासननिकेतनकेतनाभ, सरेः पदं शमपदं जनजीवनाभम् । सूरीश! भूरितरभारभरं विना त्वा मन्यः क इच्छति जनः सहसा ग्रहीतुम ? ॥ ३ ॥ १ प्रथा विस्तृतामा लक्ष्मी शोभा यस्य । २ जिन इव इन्द्र आत्मा यस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002671
Book TitleAdarsha Jivan Vijay Vallabhsuriji
Original Sutra AuthorN/A
AuthorKrushnalal Varma
PublisherGranthbhandar Mumbai
Publication Year
Total Pages828
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy