SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ (१९६) वल्लभवृत्तविलासं श्रुतबोधानुक्रमोक्तसवृत्तम् । अकुरुत नित्यानंदो लालतविजय-धीमद्नुरोधात् ॥ इति श्रीयोधपुरवास्तव्येन दाधीचकासल्योपाख्येन आशुकविकविभूषण-कविराजेन पण्डितनित्यानन्दशास्त्रिणा रचितो वल्लभवृत्तविलासः समाप्तः । श्रीमद्विजयवल्लभाभ्युदयम् । कविमण्डली— [ सहर्षोद्गारमुच्चैः ] दिष्टया वल्लभ एष तारकंपतिः सन्मङ्गलात्मा स्फुटं . प्राक् चन्द्रप्रभवस्ततः परगुरोहर्षाद् गुरुत्वं गतः । जाग्रत्कान्यतया मतः किल ततो दुर्वादिशैलेऽशनी____ भावं बिभ्रदभूतपूर्वमधुना सूर्यासनं लब्धवान् । [ इत्यादि पुनः पुनः पठति.] श्रावकमण्डली [निशम्य] अयि भोः सुकोमलकाव्यकलाकलापालापकुशले ! कविमण्डलि ! अमन्दमकरन्दस्यन्दसिक्तानीव सुधारसमयानीव परमाश्चर्यगर्भितानीव किं कर्णपूरीकारयसि कौतूहलेन सुरम्यरचनानि वचनानि । अहो ! एतैनितान्तं चित्रीयते नश्वेतः । किं तारकपतिश्चन्द्रः क्रमशस्तत्तद्ग्रहरूपमवगाहमानोऽधुना भानुतां बिभात ? . कविमण्डली. १ चन्द्रोऽपि । २ बुधोऽपि । ३ शुक्रतया इत्यपि । ४ शनित्वमपि । ५ सर्यस्यासनमित्यपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002671
Book TitleAdarsha Jivan Vijay Vallabhsuriji
Original Sutra AuthorN/A
AuthorKrushnalal Varma
PublisherGranthbhandar Mumbai
Publication Year
Total Pages828
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy