________________
(१९५)
सम्यक्त्वप्रवराऽशतद्रुतिमिता शुद्धा सदेरावती रम्या चारुविपाशिका खलु महाधी-चन्द्रभागा मुने!। स्थाने पञ्चनदीकृतेष्टि-झरिणीसूतिस्त्वयाऽऽत्मस्थितिस्तस्मात्पञ्चनदीय इच्छति सुधीशार्दल ! विक्रीडितम् ॥ राजत्कान्त्यातपत्रो गुरुवरविजयानन्दसेवी महात्मा साधीयः शिष्यसेनः परिलसितरजोहारि सञ्चामरोऽयम् विध्वस्ताभ्यन्तरारिललितसचिवको वल्लभाचार्यराजो नित्यानंदामृतश्री वरवर-वरण-स्रग्धरात्मा विराज्यात्
१ अयमर्थः-हे सुधीशार्दूल ! पण्डितपुङ्गव ! मुने! त्वया आत्मस्थितिः स्थाने युक्तं पञ्चनदीकृता पञ्चापदेशाकृता, तस्मात् ततः पञ्चनदीयः मनुष्य इत्यर्थः । विक्रीडितं केलिं इच्छति । अस्या (भवदात्मस्थितौ) इति शेषः । कथम् ? इत्यत आहसम्यक्त्वेति। सम्यक्त्वेन (सम्यग)ज्ञानेन प्रवरा,। पञ्चनदपक्षे सम्यक्त्वेन समीचीनतया प्रवरा । शतं शतप्रकारण द्रुतिः चापल्येन इतस्ततो गमनं तदभावं इता प्राप्ताः; अन्यत्र शतद्रुः सतलज' इति प्रसिद्धा नदी तया तिमिता आर्दीभूता। शुद्धा इति स्फुटम् । सदा इरावती प्रशंसायां मतुप् प्रशस्तवाणीसहितेत्यर्थः । अन्यत्र इरावती 'रावी' इति प्रसिद्धा नदी तया रम्या । चारुः तथा विपाशिका पाशहीना अन्यत्र चारः विपाशा "व्यासा" इति ख्याता नदी यत्र । महती धी एव चन्द्रभागा 'चनाब' इति प्रथिता नदी यंत्र तथा इष्टिः इच्छा मनोरथ इत्यर्थः सैव झरिणी 'जेलम' इति प्रख्याता नदी तस्याः सूतिः प्रभवस्थान; इति रूपकेण साम्यम् । २ वल्लभः आचार्याणां राजा इति तस्य राजतां प्रकटयति । राजन् देदीप्यमानः कान्तिः कान्तिविजयप्रवर्तक एवं आतपत्रं छत्रं यस्य सः। राजापि विराजमानकान्तिकं आतपत्रं धरति । तथा रजोहारि रजोहरण तस्य चामरम् । तथा ललितः ललितविजयमुनिः सचिवो मन्त्री यस्य । अन्यत् स्पष्टम् । एतादृश आचार्यराजः विराज्यात् । कथंभूतः सन्नत आह-नित्यं आनन्दो यत्र तथाभूता या अमृतश्रीः मुक्तिलक्ष्मीः तस्या या वर-वरस्य श्रेष्ठभतुः वरणनक स्वयंवरमाला तस्या धर आत्मा यस्य सः । इत्यन्ते आशंसनम् । कविनाऽन्ते नित्यानन्द इति स्वनामापि सूचितम् । शम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org