________________
(१९४) आचार्य ! सज्जनवनस्पतिसंविकास
लीलावसन्त ! तिलकादनगौरकाणाम् । व्याख्यानदक्ष ! भवतो भव-तोयराशि
निस्तारसाधनमिह प्रविदन्ति भव्याः ॥ ३५ ॥ स्वगुरुमभिविनीतः स्वस्वभावेन शीतः ।
सफलसकलकार्यः श्रीयुतो वल्लभार्यः । स्फुरति जिनपदाब्जे यस्य चेतःप्रवृत्तिः
प्रकटिततरभूपो भक्तिसीमाऽलिनीव ॥ ३६ ।। श्रमणकशिरोमाणिक्य! त्वां नु वल्लभ! वल्लभं,
स्वनयनपथाध्वन्यीकृत्य प्रकृत्यविदूषितम् । बहुलबहुलं विध्यन्त्युप्रैः कटाक्षशरैः परं, ..
धृतयममहासन्नाहत्वाद् हा हरिणक्षिणाः ॥ ३७ ॥ मुने ! भ्रान्त्वा भ्रान्त्वा जगति गतिहीना गुरुगुणा
विचिंत्यौचित्येन त्वयि परगुरौ वासमयिताः । यथान्विष्यान्विष्य प्रथममथ मेरौ शिखरिणी
हितं लीलावासं स्थिरमनुभजन्ते सुमनसः ॥ ३८ विभाति भवतो मुने ! सुभर्वनेन पृथ्वी क्षणा-...
द्विभाति गृहणी यथा सुभँवनेन पृथ्वीक्षणा । अतः समुचितं भवाञ् शुचिमहो महारांमति
__सुकीर्तिरपि कीर्तिता शुचिमहोमहा राजति ॥ ३९ ॥ . १ मुनीनां (तिलकात्)। २ भ्रमरीव । ३ धृतसंयमकवचत्वेन । ४ परास्ता इत्यर्थः। ५ ( मेरौ) पर्वते अग्रे ईहितमिति छेदः। ६ सुजन्मना । ७ सुग्रहेण । ८ आयतनेत्रा । ९ विमलोत्सवः । १० महान् राजेष आचरति । ११ शुचि श्वेनं महः तेजः यस्य तथाभूतश्चन्द्रः तद्वत् महः तेजो यस्याः सा श्वेतक्यान्तरित्यर्थः। ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org