SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ आनयते सकृदप्यसकृत् स उन्नतिमार्गमहो ! उपयाति ॥ १८ ॥ श्रीवल्लभषेर्वच इन्द्रवज्रा उज्जम्भितुं चेत् किल नोत्सहेरन् । दुर्वादिदुर्वादेक-पर्वतोक्ति-पक्षा अपक्षाय न तद् व्रजेयुः ॥ १९ ॥ श्रीवल्लभाचार्यगिरां समक्ष दुर्वादिनः किं प्रभवन्ति वक्तुम् । स्थातुं सहन्ते खलु किं गिरीन्द्रा उपेन्द्रवज्रायुधमक्षताङ्गा ॥ २० ॥ सम्यक्त्वलक्ष्म्या उपजातिमन्त __ यदीच्छथ द्रागाय ! भक्तिमन्तः !। श्रयध्वमाय मुनिवल्लभं तत् संतारयन्तं भविनां समाजम् ॥ २१ ॥ आख्यानकी या विपरीतपूर्वा मुनाविहोक्तिर्नहि साऽपरत्र । इति स्वचित्ते सुतरां विचार्य ____ निधत्त भो वल्लभ-देशनां द्राक् ॥ २२ ॥ साधुसाधितमनोरथोद्धता ऽखण्डपातकतमःकदम्बका । ज्ञानर्धामनिधिरहंदाकृति स्त्वन्मनोनभसि वल्लभ ! स्थिता ॥ २३ ॥ स्वागतादरविधिं कुरुते यो १ वांसि एव इन्द्रस्य वज्राः । २ स्वार्थे कः। ३ अपक्षाय विलीय । 'खै क्षये' इत्यस्य रूपम् । ४ इन्द्रस्य यद् वज्रायुधं तस्य समीप इत्यव्ययीभावः। ५ आख्यानकं व्याख्यानं तसंबान्धनी । ६ अविपरीता स्वधर्मानुकूला सा चासौ पूर्वा मुख्या इति कर्मधारयः । ७ मनोरथा इत्यन्तं पृथक पदम् ; उद्धतं नाशितमित्यर्थः। ८ ज्ञानानां, धानां तेजसां च निधिः । धामनिधिः । सूर्यश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002671
Book TitleAdarsha Jivan Vijay Vallabhsuriji
Original Sutra AuthorN/A
AuthorKrushnalal Varma
PublisherGranthbhandar Mumbai
Publication Year
Total Pages828
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy