________________
(१९०)
वल्लभ-सूरीश्वहृद्-माणवकाक्रीडनकम् । दार्गति जैनं चरितं कति चेतो महताम् ॥ १० । महात्मवल्लभस्मृतिः सतामभीष्टकामदा । घुसन्नगस्वरूपिणी विभाति भावुका भृशम् ॥ ११ ॥ एतत्सरिस्वान्तश्लिष्टा जैनी भक्ति यो भाति । यद्वत् सम्यक् शोभां धत्ते मेघाश्लिष्टा विद्युन्माला ॥ १२ ॥ . पर्षदि भान्ती वल्लभमूर्तिः श्रोतृजनानां कर्षति चित्तम् । केलिवने किं चम्पकमाला चोरयते नो दर्शकचक्षुः ॥ १३॥ वल्लभसूरेर्देशनया बोधित आशु श्रोतृगणः । कर्हिचिदेवोद्यत्कलुषे कर्मणि बन्धं नो धरते ॥ १४ ॥ साङ्गोपाङ्गालंकृतिः सुप्रसन्ना, दोषापेता सद्सा सद्गुणाढ्या । माधुर्यश्रीशालिनी वल्लभोक्तिः, कस्मै दत्ते नो मुदं वल्लभेव ॥१५॥ भो भो भव्या ! भव-भव-भवक्लेश-दोदूयमाना ! मनाहः सद्गुणगणगृहं शान्तदान्तान्तरात्मा । आत्मारामस्मरणनिरतो वन्द्यतां वन्द्यपादोऽमन्दाक्रान्तान्तररिपुरयं वल्लभाचार्यवर्यः ॥ १६ ॥ एतत्सूरेश्चरणयुगली सेवाभाजां हृदयसरास । आतिष्ठन्ती सुविशदगुणा हंसी वैषाऽपहरति मनः ॥ १७ ॥ वल्लभ ! वल्लभ ! यास्तव पादयुम्ममदोध आनतिमार्गम् ।
-
१ हृदेव माणवको बालकः तस्य आक्री-डनकं खेलनकम् (खिलौनेति प्रसिद्धम्)। २ अति द्राक् शीघ्रम् । ३ ासदां देवांना नगो वृक्षः कल्पवृक्ष इत्यर्थः, तत्स्वरूपिणी तत्तल्येन्यर्थः । ४ अमन्दं यथा तथा आक्रान्ता वशीकृता आन्तरा अन्तर्भवा रिपवा.येन सः । ५ अदः इदं ( पादयुग्मम् ) अध एव अधकः नीचैः आनतिः प्रणामरतस्य मागेम्।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org