SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ (१८२) जना भवार्तिप्रविनाशकाय, नमः कुरुध्वं "मुनिवल्लभाय" ॥ ४ ॥ शमादयो याद्ध गुणाः समग्राः, समेत्य दाढादिह संवसन्ति । मन्ये ततोऽमीभिरुमाश्रयोऽन्यो, लब्धोनुस्वपो "मुनिवल्लभा " नो॥ ५ ॥ जनैश्चकोरैरिव पीयमाना, अतीव माधुर्यरसं दधानाः । वाणीसुधाः कं न हि तर्पयन्ति, मुखेन्दुजाता "मुनिवल्लभस्य" ॥ ६ ॥ सदा जिनेन्द्रान्परिवन्दमाने, स्वभक्तलोकैः परिवन्द्यमाने । जना भजध्वं भवसागरेस्मिन् , सारं सुभक्तिं “मुनिवल्लभे"ऽस्मिन् ॥ ७ ॥ महागुरुश्रीमुनिनायकात्मा–नन्दाह्वयाचार्यकृपैकपात्र ! संसारतः प्राणिन उद्धरन्सन्-विराज नित्यं "मुनि वल्लभ' ! त्वम् ॥८॥ ( उपगीतवृत्तम् ) 'मुनि' राजस्य सुललितं, 'वल्लभ'विजयस्य सत्स्तोत्रम् । 'भवि'कं नित्यानन्दो 'जय'दं कृतमान्धृतानन्दः ॥९॥ ॥ इति गुरुस्तुत्यष्टकम् ॥ -श्रीयुत पं० नित्यानंद शास्त्री आशु कवि। आर्याभिनन्दनपत्रम् । समस्तजिनरत्नानां, धर्माणामतुलोमहान् । आचार्य विजयानन्दो, विभुर्विजयतेतराम् ॥ १॥ . तपादपङ्कजरजः समुपास्यधीरस्त्यक्त्वा रमां स च रमाविजयो महात्मा श्रीमज्जिनेन्द्रशुभशासनकर्णधारो, हारो बभूव जिवरत्नजुषां जनानाम् ॥२॥ तेषां शुभाचरणलोकवशीकृताना-मात्मामिरामजनशोकविशोषकरणाम् ॥ धर्मात्मनामुपगतः किलशिष्यभावं, श्रीहर्षपूर्व विजयोत्तरनामधेयः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002671
Book TitleAdarsha Jivan Vijay Vallabhsuriji
Original Sutra AuthorN/A
AuthorKrushnalal Varma
PublisherGranthbhandar Mumbai
Publication Year
Total Pages828
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy