________________
आध्यात्मिक विकास की तुलना
२०३ सात अज्ञान की बतलाई हुई हैं, जो जैन-परिभाषा के अनुसार क्रमशः मिथ्यात्व की और सम्यक्त्वकी अवस्था की सूचक हैं। (११) योगवासिष्ठ में तत्त्वज्ञ,
भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् । बीजरूपं स्थितं जाग्रत् , बीजजाग्रत्तदुच्यते ॥१४॥ एषा शप्तेर्नवावस्था, त्वं जाग्रत्संसृतिं शृणु। नवप्रसूतस्य परादयं चाहमिदं मम ॥१५॥ इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् । अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ॥१६॥ पीवरः प्रत्ययः प्रोक्तो, महाजाग्रदिति स्फुटम् । अरूढमथवा रूढं सर्वथा तन्मयात्मकम् ।।१७।। यज्जाग्रतो मनोराज्यं जाग्रत्स्वप्नः स उच्यते । द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ॥१८॥ अभ्यासात्प्राप्य जाग्रत्त्वं, स्वप्नोऽनेकविधो भवेत् । अल्पकालं मया दृष्टं, एवं नो सत्यमित्यपि ॥१६॥ निद्राकालानुभूतेऽर्थे, निद्रान्ते प्रत्ययो हि यः। । स स्वप्नः कथितस्तस्य, महाजाग्रस्थितेहँदि ॥२०॥ चिरसंदर्शनाभावादप्रफुल्लबृहद् वपुः। स्वप्नो जाग्रत्तयारूढो, महाजाग्रत्पदं गतः ॥२१॥ अक्षते वा क्षते देहे, स्वप्नजाग्रन्मतं हि तत् । षडवस्थापरित्यागे, जडा जीवस्य या स्थितिः ॥२२॥ भविष्यदुःखबोधाढ्या, सौषुप्ती सोच्यते गतिः। एते तस्यामवस्थायां तृणलोष्ठशिलादयः ॥२३॥ पदार्थाः संस्थिताः सर्वे, परमाणुप्रमाणिनः । ससावस्था इति प्रोक्ता, मयाऽज्ञानस्य राघव ॥२४॥'
उत्पत्ति-प्रकरण सर्ग ११७ ॥ 'ज्ञानभूमिः शुभेच्छाख्या, प्रथमा समुदाहृता । विवारण द्वितीया तु, तृतीया तनुमानसा ॥५॥ सत्त्वापत्तिश्चतुर्थी स्यात्ततो संसक्तिनामिका । पदार्थाभावनी षष्ठी, सप्तमी तुर्यगा स्मृता ॥६॥
आसामन्ते स्थिता मुक्तिस्तस्यां भूयो न शोच्यते । एतासां भूमिकानां त्वमिदं निर्वचनं शृणु ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org