SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ नाम्नि चतुर्थः पादः ने अन्यत् । ५५। युष्मद्-अस्मभ्यां पूर्वम् जसन्तात् अन्यत् आमन्त्र्यं विशेष्यम् आमन्त्र्ये तद्विशेषणे परे अविद्यमानमिव न भवति । साधो ! शरण्य ! त्वा शरणं प्रपद्ये । साधू ! शरण्यौ ! मा रक्षतः ।। ५५ ॥ पादाद्योः। ५६ । नियतपरिमाणमात्रा-अक्षरपिण्डः पादः । पदात् परयोः पादस्य आदिभूतयोः युष्मद्-अस्मदोः यदुक्तं 'वस्-नस्' आदि तत् न भवति । "रुद्रो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवान् अस्माकं पापनाशनः" ।। [ ] पादायोः इति किम् ? 'पान्तु वः तिग्ममार्तण्डमयूखोत्करसन्निभाः । तमस्काण्डभिदो ब्रह्मज्ञानदीपप्रभाकुराः" । ] ॥ ५६ ॥ च-वा-ह-अह-एवयोगे । ५७। 'च'आदिभिः योगे 'वस्-नस्' आदि न भवति । जनो युष्मांश्च पश्यति । जनो युष्मान् वा पश्यति । जनः अस्मान् ह पश्यति । जनो युष्मान् अह पश्यति । जनो युष्मान् एव पश्यति । योगे इति किम् ? ज्ञानं च शीलं च ते स्वम् ॥ ५७ ॥ मनसि ईक्षार्थैः । ५८ । ईक्षा दर्शनम् तदर्थैः धातुभिः सह यद् वाक्यम् तस्य अवयवात् पदात् परयोः युष्मद्-अस्मदोः 'वस्-नस्' आदि न भवति, सा चेत् ईक्षा मनोविषया भवति । जनः युष्मान् समीक्ष्य आगतः । जनः अस्मान् समीक्ष्य आगतः। जनः तव कार्यम् आलोचयति । मनसि इति किम् ? जनः नः पश्यति चक्षुषा इत्यर्थः । ईक्षार्थेः इति किम् ? जनः वः मन्यते ॥ ५८ ॥ नित्यम् अन्वादेशे । ५९ । तेन अन्येन वा शब्देन किञ्चिद् विधातुं कथितस्य प्रतिपाद्यान्तरप्रतिपादनायं १ इदमेव संपूर्ण पद्यम् काशिकायाम् ८1१।१८। केवलं तत्र 'अस्माकं शत्रुमर्दनः” इति पाठमेदः । - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy