________________
६८) आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
डे-डसा ते मे । ५१। वाक्यस्य अवयवात् पदात् परयोः तद्वाक्यस्यैव अवयवयोः युष्मद्-अस्मदोः यथासंख्यं ङया ङसा च सह ते मे इत्यादेशौ भवतः वा ।
धर्मः ते दीयते । धर्मः तुभ्यं दीयते । धर्मः मे दीयते । धर्मः मह्यं दीयते । धर्मः ते स्वम् । धर्मः तव स्वम् । धर्मः मे स्वम् । धर्मः मम स्वम् ॥ ५१ ॥
अमा त्वा मा । ५२ । वाक्यस्य अवयवात् पदात् परयोः तद्वाक्यस्यैव अवयवयोः युष्मद्-अस्मदोः अमा सह यथासंख्यं त्वा मा आदेशौ भवतः वा । __ धर्मः त्वा पातु । धर्मः त्वां पातु । धर्मः मा पातु । धर्मः मां पातु ॥ ५२ ।।
__ असत् इव आमन्त्र्यं पूर्वम् । ५३ । आमन्त्र्यार्थ पदं युष्मद्-अस्मभ्यां पूर्वम् अविद्यमानम् इव वेदितव्यम् , तेन तदाश्रयं वसू-नसादि न भवति ।
देवदत्त ! युष्मान् पातु धर्मः । साधू ! युवां पातु धर्मः । साधो ! त्वां पातु शीलम् । 'इव'ग्रहणं विद्यमानताभावार्थम् । आमन्त्र्यम् इति किम् ? धर्मः वः रक्षतु । पूर्वम् इति किम् ? "मयैतत् सर्वमाख्यातं युष्माकं मुनिपुंगवाः !' ] परस्य असत्त्वे “पादाद्योः" [ना० चतु० पा० सू० ५६ ] इति प्रतिषेधो न स्यात् । पूर्वस्य अविद्यमानवद्भावः व्यवहितस्यापि अविद्यमानवद्भावार्थः अन्यथा 'न आमन्त्र्यात्' इत्येव उच्यते, तेन-'देवदत्त ! धर्मः वः रक्षतु' इत्यत्र “पदात् प्रथमाया वा" [ना० चतु० पा० सू० ६०] इति विकल्पो न भवति ॥ ५३॥
- जस्विशेष्यं वा आमन्त्र्ये । ५४। तद्-अतद्विषयं विशेष्यम् तस्य व्यवच्छेदकं विशेषगम् । जसन्तम् आमन्त्र्यार्थ पदं विशेष्यं युष्मद्-अस्मद्भ्यां पूर्वम् तद्विशेषणे आमन्त्र्ये पदे परे अविद्यमानम् इव वा भवति।
देवा ! शरण्याः ! युष्मान् अथो शरणं प्रपद्ये, देवाः ! शरण्या ! वः अथो शरणं प्रपथे । देवाः ! शरण्याः ! अस्मान् अथो रक्षत, देवाः ! शरण्याः ! नः अथो रक्षत । जस्-इति किम् ? साधो ! शरण्य ! वः अथो शरणं प्रपद्ये । विशेष्यम् इति किम् ? शरण्याः ! साधवः ! युष्मान् शरणं प्रपद्ये । आमन्त्र्ये इति किम् ? आचार्याः ! युष्मान् शरण्यान् शरणं प्रपद्ये । अन्वादेशे विकल्पार्थ वचनम् ॥ ५४ ॥
१त् पूर्वमा ' पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org