________________
नाम्नि चतु: पादः
[६७ यूयम् । वयम् । प्रियः त्वम् युवाम् यूयं वा येषां ते प्रिययूयम् । प्रियवयम् । प्राक् च अकः इति किम् ? यूयकम् । वयकम् ॥ ४६ ॥
तुभ्यं मह्यं ङया। ४७ । युष्मद्-अस्मदोः ङया सह यथासंख्यं तुभ्यम् मह्यम् इति आदेशौ भवतः, प्राक् च अकः ।
तुभ्यम् । मह्यम् । प्रियः त्वम् युवाम् यूयं वा यस्य तस्मै प्रियतुभ्यम् । प्रियमह्यम् । प्राक् च अकः इति किम् ? तुभ्यकम् । मह्यकम् ।। ४७ ।।
तव मम उसा। ४८। युष्मद्-अस्मदोः ङसा सह यथासंख्यं तव मम इति आदेशौ भवतः, प्राक् च अकः ।
तव । मम । प्रियः त्वम् युवाम् यूयम् वा यस्य तस्य प्रियतव । प्रियमम । प्राक् च अकः इत्येव ? तवक । ममक ॥ ४८ ॥
पदात् वाक्यस्य वस्-नसौ बहुत्वे युविभक्त्या । ४९ ।
वाक्यस्य अवयवात् पदात् परयोः तद्वाक्यस्यैव अवयवयोः युष्मद्-अस्मदोः बहुत्वविषयया समविभक्त्या सह यथासंख्यं वस् नस् इति आदेशौ भवतः, उत्तरत्र अन्वादेशे नित्यं विधानात् इह विकल्पः ।
धर्मः वः रक्षतु । धर्मः नः रक्षतु । धर्मः युष्मान् रक्षतु । धर्मः ‘अस्मान् रक्षतु । शीलं वः दीयते । शीलं नः दीयते । शीलं युष्मभ्यं दीयते । शीलम् अस्मभ्यं दीयते । शीलं वः स्वम् । शीलं नः स्वम् । शीलं युष्माकं स्वम् । शीलम् अस्माकं स्वम् । पदात् इति किम् ? युष्मान् धर्मः रक्षतु । वाक्यस्य इति किम् ? पदावयवात् मा भूत्-अतियुष्मान् पश्य । तद्वाक्यस्यैव अवयवयोः इति किम् ? ओदनं पचत, युष्माकं भविष्यति । युगविभक्त्या इति किम् ? गृहे यूयं तिष्ठत ॥ ४९ ॥
वाम् नौ द्वित्वे । ५०। वाक्यस्य अवयवात् पदात् परयोः तद्वाक्यस्यैव अवयवयोः युष्मद्-अस्मदोः द्वित्वविषयया युगविभक्त्या सह यथासंख्यं वाम् नौ इत्यादेशौ भवतः वा ।
. धर्मः वां पातु । धर्मः युवां पातु । धर्मः नौ पातु । धर्मः आवां पातु । शीलं वां दीयते । शीलं युवाभ्यां दीयते । शीलं नौ दीयते । शीलम् आवाभ्यां दीयते । शीलं वां स्वम् । शीलं युवयोः स्वम् । शीलं नौ स्वम् । शीलं आवयोः स्वम् ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org