________________
७० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । पुनस्तेन कथनम् अन्वादेशः, तस्मिन् विषये पदात् परयोः युष्मद्-अस्मदोः यद् उक्तं 'वस्-नस्' आदि तत् नित्यं भवति ।
यूयं विनीताः तद् वः गुरवो मानयन्ति । वयं विनीताः तद् नः गुरवो मानयन्ति । धनवान् त्वम् अथो त्वा लोकः मानयति । धनवान् अहम् अथो मा लोकः मानयति । अन्वादेशे नित्यवचनात् अन्यत्र विकल्पः ॥ ५९ ॥
पदात् प्रथमाया वा । ६० । पदात् परं यत् पदं प्रथमान्तं तस्मात् परयोः युष्मद्-अस्मदोः यद् उक्तं 'वस्नस्' आदि तत् वा भवति ।
यूयं विनीताः तद् गुरवः वः मानयन्ति, तद् गुरवः युष्मान् मानयन्ति । धनवान् अहम् तद् लोकः मा मानयति, तद् लोकः मां मानयति ॥ ६० ॥
त्यदाम् एनत् एतदः द्वितीया-टा-ओसि अवृत्त्यन्ते । ६१।
त्यदादीनां संवन्धिन्यां द्वितीयायाम् टायाम् ओसि च परे अन्वादेशे एतदः स्थाने एनद् आदेशो भवति, वृत्त्यन्ते वर्तमानस्य तु न भवति ।।
अधीतम् एतत् सूत्रम् अथो एनद् नः व्याचवम् । एतेन रात्रिः अधीता अथो' एनेन अहरपि अधीतम् । एतयोः शोभनं शीलम् अथो एनयोः महती कीर्तिः । एनच्छुितकः-अर्थात् प्रकरणात् वा अपेक्ष्ये निर्माते इदम् उदाहरणम् । द्वितीया-टा-ओसि इति किम् ? एतस्मै सूत्रं देहि अथो एतस्मै व्याख्यां कुरु । अवृत्यन्ते इति किम् ? परमैतं पश्य ।। ६१ ॥
इदमः । ६२। त्यदां संबन्धिनि द्वितीया-टा-ओसि परे अन्वादेशे इदमः एनद् आदेशों भवति ।
अधीतम् इदम् सूत्रम् अथो एनद् नः व्याचवम् । अनेन रात्रिः अधीता अथो एनेन अहः अपि अधीतम् । अनयोः शोभनं शीलम् अथो एनयोर्महती कीर्तिः ॥ ६२॥
व्यञ्जने अश् । ६३ ।। त्यदां संबन्धिनि व्यञ्जनादौ स्यादौ परे अन्वादेशे इदमः स्थाने अश् आदेशो भवति । ___ इमकाभ्यां शैक्षकाभ्यां रात्रिः अधीता अथो आभ्याम् अहः अपि अधीतम् ।
१ .थोऽनेन अह. पा० । .थोनेव अह० पू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org