________________
६३
नाम्नि चतुर्थः पादः वृक्षेण । वृक्षस्य । अतिजरसिन ॥ २० ॥
डे-ङसेः य-आत् । २१ । अकारात् परयोः ढे-ङस्योः स्थाने यथासंख्यं 'य' 'आत्' इत्यादेशौ भवतः । वृक्षाय । वृक्षात् । अतिजरसात् ॥ २१ ॥
सर्वादेः स्मै स्मात् । २२ । सर्वादेः अकारान्तस्य संबन्धिनोः डे-ङस्योः स्थाने यथासंख्यं स्मै स्मात् आदेशौ भवतः ।
सर्वस्मै, सर्वस्मात् । विश्वस्मै, विश्वस्मात् । सर्वादः संबन्धिनोः इति किम् ? प्रियसर्वाय, प्रियसर्वात् । अतः इति किम् ? भवतः । सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम । सम सिम सर्वार्थे । पूर्व-पर-अवर-दक्षिण-उत्तर-अपर-अधराणि व्यवस्थायाम् । स्वम् अज्ञाति-धनाख्यायाम् । अन्तरं बहिर्योग-उपसंव्यानयोः अपुरि । त्यद् तद् यद् अदम् इदम् एतद् एक द्वि युष्मद् भवतु अस्मद् किम् । असंज्ञायां सर्वादिः॥२२॥
': स्मिन् । २३ । सर्वादेः अकारान्तस्य संबन्धिनः २: स्मिन् आदेशो भवति । सर्वस्मिन् । विश्वस्मिन् ॥ २३ ॥
जसः शिः । २४ । सर्वादेः अकारान्तस्य संबन्धिनः जसः स्थाने शिर्भवति । सर्वे । विश्वे । शकारः सर्वादेशार्थः ।। २४ ॥
नेम-अल्पादेः वा । २५ । नेमस्य सर्वादेः अल्पादेश्च अकारान्तस्य संबन्धिनः जसः स्थाने शिः वा भवति ।
नेमे, नेमाः । अल्पे, अल्पाः । प्रथमे, प्रथमाः । अल्प प्रथम चरम अर्ध कतिपय तय अय इति अल्पादिः । नेमस्य सर्वादेः इति किम् ? नेमाः नाम केचित् । तत्संबन्धिविज्ञानं किम् ? प्रियनेमाः । अतः इति किम् ? नेमाः स्त्रियः ॥ २५ ॥
इन्छे । २६ । द्वन्द्व समासे वर्तमानानाम् अकारान्तानां सर्वादीनां संबन्धिनो जसः स्थाने शिः वा भवति ।
१ौ स्मिन् पा• ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org