________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'रे' शब्दस्य व्यञ्जनादौ स्यादौ परे आकारः अन्तादेशो भवति ।
राः । राभ्याम् । ऐकदेशविकृतस्य अनन्यत्वात्- - अतिराभ्यां कुलाभ्याम् । स्यादौ इति किम् ? रैभारः ॥ १४ ॥
६२ ]
अतः एत् बहौ । १५ ।
अकारस्य बहुविषये व्यञ्जनादौ स्यादौ परे एकार आदेशो भवति ।
एभिः । अमीभिः । श्रमणेभ्यः । श्रमणेषु । सर्वेषाम् । 'वृक्षाणाम्' इत्यत्र परत्वात् दीर्घः ॥ १५ ॥
अकारस्य ओसि परे एकारो भवति ।
वृक्षयोः ॥ १६ ॥
ओसि । १६ ।
आ जस्-भ्याम्-ये । १७ ।
अकारस्य जसि भ्यामि ये च स्यादौ परे आकारो भवति ।
वृक्षाः । वृक्षाभ्याम् । वृक्षाय । स्यादौ इति किम् ? बागान् जस्यति इति
बाणजः ॥ १७ ॥
भिस ऐस् । १८ ।
अकारात् परस्य भिसः स्यादेः ऐस् आदेशो भवति ।
वृक्षैः । 'ऐस्' करणात् स्यादिविधौ सन्निपातपरिभाषा नोपतिष्ठते । अतिजरसैः । स्यादेः इति किम् ? ओदनभिस्सटा । अतः इति किम् ? मुनिभिः ॥ १८ ॥
न इदम्-अदसः अनकः । १९ ।
इदमः अदसश्च अक्वर्जितात् परस्य भिसः ऐस् न भवति । एभिः । अमीभिः । अनक इति किम् ? इमकैः । अमुकैः ॥ १९ ॥
टा-ङसोः इन-स्यौ । २० ।
अकारात् परयोः टा-ङसोः स्थाने यथासंख्यम् 'इन' 'स्य' इत्यादेशौ भवतः ।
१ " एकदेशविकृतम् अनन्यवत्" - [ न्यायसंग्रहे न्याय ७ पृ० ८]
२ " सन्निपातलक्षणो विधिः अनिमित्तं तद्विघातस्य" इति परिभाषा - [ न्यायसंग्रहे न्याय १९ पृ० १९]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org