________________
नाम्नि चतुर्थः पादः __ उपकुम्भं तिष्ठति । उपकुम्भं पश्य । उपकुम्भ देहि । उपकुम्भं स्वम् । अपञ्चम्या इति किम् ? उपकुम्भात् ॥ ७ ॥
__ वा तृतीयायाः।८। अकारान्तस्य अव्ययीभावस्य संबन्धिन्याः तृतीयायाः अम् आदेशो वा भवति । उपकुम्भेन, उपकुम्भम् ॥ ८ ॥
सप्तम्याः ।९। अकारान्तस्य अव्ययीभावस्य संबन्धिन्याः सप्तम्याः अम् आदेशो वा भवति । उपकुम्भम् , उपकुम्भे । पृथग्योगः उत्तरार्थः ॥ ९ ॥
ऋद्ध-नदी-वंश्यस्य । १० । ऋद्धान्तस्य नद्यन्तस्य वंश्यान्तस्य च अव्ययीभावस्य अकारान्तस्य संबन्धिन्याः सप्तम्याः नित्यम् अम् आदेशो भवति ।।
समदं वसति । समगधं वसति । नदी-उन्मत्तगङ्गम् । लोहितगङ्गम् । वंश्यएकविंशति भारद्वाजं वसति । प्रतिपदोक्तस्य नद्यन्तस्य अव्ययीभावस्य ग्रहणात् इह न भवति-उपगङ्गे ॥ १० ॥
भे अपः द् । ११। 'अप'शब्दस्य भकारादौ स्यादौ परे 'द्'अन्तादेशो भवति । अद्भिः । अत्यद्भिः । भे इति किम् ? अप्सु । स्यादौ इति कित् ? अब्भक्षः ॥११॥
जरायाः वा स्वरे डस् । १२।। 'जरा'शब्दस्य स्वरादौ स्थादौ परे वा 'डस्' अन्तादेशो भवति ।
जरसौ, जरसा । एकदेशविकृतस्य अनन्यत्वात् अतिजरसौ, अतिजरसा । पक्षे जरे, जरया ॥ १२ ॥
अष्टनः आ । १३। 'अष्टन्'शब्दस्य स्यादौ परे आकारः अन्तादेशो वा भवति ।
अष्टाभिः । अष्टासु । अष्टभिः । अष्टसु । प्रियाष्टी, प्रियाष्टानौ । स्यादौ इति किम् ? अष्टसूत्री ॥ १३ ॥
रायः व्यञ्जने । १४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org