________________
६०] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । सखीभिः एभिः कुलैर्वा परस्परां भोज्यते, परस्परेण भोज्यते । अन्योन्याम् अन्योन्येन, इतरेतराम् इतरेतरेण भोज्यते । अपुंसि इति किम् ? परस्परम् इमे जना भोजयन्ति । 'अम्' [ ] इति अन्ये । 'पुंसि' [ ] इति अपरे। इमे परस्पर-आदयः शब्दाः स्वभावतः क्रियाव्यतिहार-एकत्वविषयाः सर्वत्र पुंस्त्वोपादानाः ॥ १ ॥
___ अष्टः जस्-शसोः औश् । २। _ 'अष्टन्'शब्दस्य कृताऽऽकारस्य संबन्धिनोः जस्-शसोः स्थाने और आदेशो भवति ।
अष्टौ तिष्ठन्ति । अष्टौ पश्य । परमाष्टौ तिष्ठन्ति । परमाष्टौ पश्य । अकारान्तनिर्देशः किम् ? अष्ट तिष्ठन्ति । अष्ट पश्य । तत्संबन्धिविज्ञानं किम् ? प्रियाष्टाः तिष्ठन्ति । प्रियाष्टः पश्य । केचित् "णिचि किपि औशम्" [ ] इच्छन्ति तद् अपि अतो निर्देशात् सिद्धम् । शकारः सर्वादेशार्थः ॥ २ ॥
डति-ष्-णां संख्यानां ष्णुक् । ३ । डति-षकार-नकारान्तायाः संख्यायाः संबन्धिनोः जस्-शसोः ष्णुग् भवति ।
कति तिष्ठन्ति । कति पश्य । यति तिष्ठन्ति । यति पश्य । तति तिष्ठन्ति । तति पश्य । षट् । पञ्च । डति-ष्-णाम् इति किम् ? चत्वारः । संख्यानाम् इति किम् ? विपुषः । यज्वानः । तत्संबन्धिज्ञानं किम् ? प्रियषषः । प्रियपञ्चानः ॥ ३ ॥
अव्ययस्य । ४। अव्ययस्य संबन्धिनः स्यादेः ष्णुग भवति । स्वः । उच्चैः । परमोच्चैः । तत्संबन्धिविज्ञानात् इह न भवति-अत्युच्चैसौ, अत्युच्चैसः ॥ ४ ॥
अव्ययीभावस्य ।। अव्ययीभावस्य संबन्धिनः स्यादेः ष्णुग भवति । अधिस्त्रि । उपवधु । तत्संबन्धिविज्ञानं किम् ? प्रियोपवधुः । पृथग्योगः उत्तरार्थः ॥५॥
न अतः।६। अकारान्तस्य अव्ययीभावस्य संबन्धिनः स्यादेः ष्णुग् न भवति । उपकुम्भेन । उपकुम्भात् । अतः इति किम् ? अधिस्त्रि ।। ६ ॥
अम् अपश्चम्याः ।७। अकारान्तस्य अव्ययीभावस्य संबन्धिनः स्यादेः अम् भवति, पञ्चमी वर्जयित्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org