SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ५८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । अत्-एति अतः लुक । ३९ । अपदसंज्ञकावयवस्य अतः अकारे एकारे च परे लुग् भवति । सः, तौ । पचन्ति, पचे । अत्-एति इति किम् ? श्रवगा। अपदस्य इति किम् ? दण्डानम् ॥ ३९ ॥ उशनसः नश्च आमन्त्र्ये वा सौ । ४० । आमन्त्र्ये वर्तमानस्य उशनसः अन्तस्य नकारः लुक् च सौ परे वा भवति । हे उशनन् !, हे उशना !, हे उशनः ! । आमन्त्र्ये इति किम् ? उशना । सौ इति किम् ? हे उशनसौ ।। ४० ॥ भवतः सिना भोस् । ४१।। 'भवत्'शब्दस्य आमन्त्र्ये अर्थे वर्तमानस्य सिना सह भोस् इति [वा ] निपात्यते । हे भोः !, हे भवन् ! । निपातनस्य इष्टविषयत्वात् 'भवत्'शब्दस्य सर्वादेर्ग्रहणम् तेन इह न भवति-भानि अस्य सन्ति इति मतुः भवतेर्वा शता-हे भवन् ! ॥ ४१ ॥ . नित्यदितः हस्वः । ४२ । नित्यं दै-दास्-दास्-दामः यस्मात् तस्य आमन्त्र्ये अर्थे वर्तमानस्य सिना सह हस्वः भवति । हे स्त्रि ! । हे लक्ष्मि ! । हे नदि !। हे वधु ! । हे श्वश्रु ! । हे अतिलदिम ! । नित्यदितः इति किम् ? हे श्रीः ! । हे भ्रूः ! ॥ ४२ ॥ द्विस्वर-अम्बार्थस्य । ४३ । द्विस्वरस्य अम्बार्थस्य आमन्त्र्यार्थवृत्तेः सिना सह हस्वः भवति । हे अम्ब ! । हे अक्क ! । हे परमाम्ब !। हे प्रियाम्ब !। द्विस्वर-इति किम् ? हे अम्बाडे ! । हे अम्बाले ! । हे अम्बिके ! । 'हे मातर्' इत्यत्र परत्वात् अर् ॥ ४३ ॥ हस्वस्य गुणः। ४४। हस्वान्तस्य आमन्त्र्यार्थवृत्तेः सिना सह गुणो भवति । हे पितः ! । हे मातः ! । हे मुने ! । हे साधो ! ।। ४४ ॥ . एत् आपः । ४५ । 'आप'अन्तस्य आमन्त्र्यार्थवृत्तेः सिना सह एद् भवति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy