________________
नाम्नि तृतीयः पादः
[ ५७ दध्ययति । दध्यच्यति । दध्यच्यते । दध्यञ्चि कुलानि । अच इति किम् ? लुप्तनकारस्य अञ्चतेर्ग्रहणात् इह न भवति-साध्वञ्चा । शकारः सर्वादेशार्थः ॥ ३४ ॥
उदः ईः। ३५। उदः परस्य 'अच्' इत्येतस्य अपदसंज्ञकस्य अणिच-य-घुटि प्रत्यये परे आदेः ईकारादेशो भवति ।
उदीचः, उदीचा । अणिच्-य-घुटि इति किम् ? उदयति । उदच्यति । उदच्यते । उदञ्चि कुलानि । अपदस्य इति किम् ? उदगभ्याम् । लुप्तनकारस्य अञ्चतेग्रहणं किम् ? उदञ्चा ॥ ३५ ॥
श्वन् युवन्-मघोनः वस्य डी-स्यादौ उश । ३६ । श्वन्-युवन्-मघवन् इत्येतेषाम् अपदसंज्ञकानां संबन्धिनः 'व'शब्दस्य ङीप्रत्यये घुट्वर्जिते स्यादौ च परे उश् आदेशो भवति ।
इयं शुनी । प्रियशुनी कुले । शुनः, शुना । अतियूनी इयम् । अतियूनी कुले । यूनः, यूना । अनिमघोनी इयम् । मघोनः, मघोना । ङी-स्यादौ इति किम् ? शौवनं मांसम् । यौवनं वर्तते । माधवनः स्थालीपाकः । घुट्वर्जिते इति किम् ? श्वानौ । युवानौ । मघवानौ । अपदस्य इति किम् ? श्वभ्याम् । 'युवन्'इति वकारः नकारान्तसंप्रत्ययार्थः, इह न भवति-युवतीः पश्य । शकारः सर्वादेशार्थः ।। ३६ ॥
अव-मन्तसंयोगात् अनः श्नः । ३७ । अपदसंज्ञकस्य संबन्धिनः अवयवस्य अनः स्थाने अघुटि ङो-स्यादौ परे श्न आदेशो भवति, न चेत् सः- अन् व-मन्तसंयोगात् परो भवति।
राज्ञी । राज्ञा, राज्ञः । अव-मन्तसंयोगात् इति किम् ? पर्वणा । चर्मणा । अघुटि इति किम् ? राजानौ। अपदस्य इति किम् ? राजभ्याम् । ङी-स्यादौ इति किम् ? राजानः । शकारः सर्वादेशार्थः ।। ३७ ॥
डि-ग्योः वा । ३८ । अपदसंज्ञकावयवस्य अनः ङौ ग्यादेशे च परे इन आदेशो वा भवति, न चेत् सः-अन् व-मन्तसंयोगात् परो भवति ।
राज्ञि, राजनि । साम्नी, सामनी। अब-मन्तसंयोगात् इति किम् ? पर्वणि । चर्मणि। पर्वणी । चर्मणी ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org