________________
५६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
डिति । ३० । अपदसंज्ञकस्य ङिति परे अन्त्यस्वरादेः ष्णु भवति । मुनौ । साधौ । पितुः । महाकरः ।। ३० ॥
अणिच-य-घुटि आतः अनापः । ३१ । अपदसंज्ञकावयवस्य आकारस्य अनापः णिच्-य-घुट्वर्जिते प्रत्यये परे णुक् भवति ।
कीलालपः । कीलालपा । हाहे देहि । अनापः इति किम् ? शालाः पश्य । अणिच-य-धुटि इति किम् ? कीलालपयति । कीलालपायते । कीलालपाः तिष्ठन्ति । अपदस्य इति किम् ? कीलालपाभ्याम् ॥ ३१ ॥
। पाद: पद । ३२। अपदसंज्ञकस्य संबन्धिनः ‘पाद्' इत्यवयवस्य अणिच-य-घुटि प्रत्यये परे पद् इत्यादेशो भवति ।
द्विपदः पश्य । द्विपदी कुले। पादयतेः क्विप्-पदी कुले । अपदस्य इति किम् ? द्विपाद्भ्याम् । अणिच्-य-घुटि इति किम् ? पादयति । द्विपाद्यति । द्विपाद्यते । बहुपान्दि कुलानि ॥ ३२ ॥
क्वस् उस् । ३३ । अपदसंज्ञकस्य संबन्धिनः 'क्वस्'इत्यवयवस्य अणिच्-य-घुटि प्रत्यये परे उस् आदेशो भवति ।
विदुषः । विदुषा । विदुष्मान् । “स्-तं मत्वर्थे" [द्विती० सन्धिः सू० १२] इति मतौ अपदत्वम् । पेचुषः । अणिच्-य-धुटि इति किम् ? विद्वयति । विद्वस्यति । विद्वस्यते । विद्वांसौ । 'क्वस्' इति ककारः किम् ? चर्मवसा ॥ ३३ ॥
अचः श्वः प्राग दीर्घश्च । ३४ । अपदसंज्ञकस्य संबन्धिनः 'अच्' इत्यवयवस्य अणिच्-य-घुटि परे 'श्च' इत्यादेशो भवति, दीर्घश्च प्राक् ।
दधीचः, दधीचा । दधीची कुले । मधूचः, मधूचा । अणिच्-य-घुटि इति किम् ? १ अत्र 'लुक्' इति शाक• अमोघवृ०।१।२।१५१। २ महत्याः करः महाकरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org