________________
नाम्नि तृतीयः पादः
पुंसः ङस् । २३ । 'पुंसः' इति - एतस्य घुटि परे ङस्-अन्तादेशो भवति ।
पुमान् । पुमांसौ । बहुपुमांसि । घुटि इति किम् ? पुंसः । द्विपुंसी कुले । पुंसः उदित्वात् नम् ङी हस्वविकल्पश्च-बहुपुंसितरा, बहुपुंसीतरा ॥ २३ ॥
ओतः औः। २४ । ओतः घुटि परे और्भवति ।
गौः, गावौ, गावः । द्यौः, द्यावौ, द्यावः । अतिगौः । प्रियगौः । ओतः इति किम् ? चित्रगुः । लाक्षणिकत्वात् इह न भवति- हे चित्रगो ! । घुटि इति किम् ? गवा ॥ २४ ॥
आ अम्-शसः अता । २५ । ओतः अम्--शसोः अता सह आ भवति । गाम् , गाः । द्याम् , द्याः । सुगाम् । अतियाम् ।। २५ ॥
पथि-मथि-ऋभुक्षः सौ इनः । २६ । 'पथि'-आदीनाम् इनः सौ घुटि परे आकारो भवति । पन्थाः । मन्थाः । ऋभुक्षाः । हे पन्थाः !। सौ इति किम् ? पन्थानौ ॥ २६ ॥
अन् । २७। .. 'पथि'-आदीनाम् इनः घुटि परे अन् भवति ।
पन्थानौ । मन्थानौ । ऋभुक्षाणौ । सुपन्थानि वनानि । इनः इति किम् ? पन्थानम् इच्छन्तौ पथ्यौ । घुटि इति किम् ? सुपथी वने ॥ २७ ॥
थः नट् । २८। 'पथि-आदीनाम् इन्-अन्तानां घुटि परे थकारस्य नट् आगमो भवति । पन्थानौ । मन्थानौ । पन्थानः ।। २८ ॥
अपदस्य अन्त्यस्वरादेः ष्णुक् । २९ । 'पथि'-आदीनाम् इन्-अन्तानाम् अपदसंज्ञकानाम् अन्त्यस्वरादेः ष्णुक् भवति ।
पथः, पथा । मथः, मथा । ऋभुक्षः, ऋभुक्षा । सुपथी नगरी । इनः इति किम् ? पन्थानम् इच्छतः पथ्यः पश्य । अपदस्य इति किम् ? पथिभ्याम् ॥ २९ ॥
१ शाक० अमोघवृत्तौ 'लुक" इति-1१।२।१०५, १०६, १०७, १०८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org