________________
५४ ] आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् ।
इन्-हन्-पूष-अर्यमणः शौ । १७ । 'इन्'-आदीनां शौ परे यो नकारः तस्मिन् पूर्वस्य समानस्य दीपो भवति ।
बहुदण्डीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । “नि" [ नाम्नि तृ० पा० सू० १५] इत्येव सिद्धौ नियमार्थं वचनम्-शौ एव । तेन इह न भवति-दण्डिनौ । वृत्रहणौ । पूषगौ । अर्यमणौ ॥ १७ ॥
सौ अतोश्च । १८। अवन्तस्य इन्-आदीनां च सौ परे नकारे पूर्वस्य समानस्य दीर्घो भवति, नैकामन्त्रणे ।
भवान् । गोमान् । दण्डी । वृत्रहा । पूषा । अर्यमा । प्रियदण्डी । नैकामन्त्रण इति किम् ? हे गोमन् ! । हे दण्डिन् ! । 'अतु'इति उकारानुबन्धस्य अत्वन्तस्य ग्रहणात् इह न भवति-पचन् ॥ १८ ॥ .
अभ्वादेः असश्च । १९ । अभ्वादेः असन्तस्य सौ परे पूर्वस्य समानस्य दीर्घो भवति, नैकामन्त्रणे ।
सुस्रोता नदी । स्थूलशिरस्यतेः क्विप् स्थूलशिराः । अन्वादेः इति किम् ? पिण्डग्रः । नैकामन्त्रण इति किम् ? हे वेधः । पृथग्योगः “नि" [नाम्नि तृ० पा० सू० १५] इत्यस्य अभावार्थः । चकारः 'नैकामन्त्रणे' इत्यस्य अनुकर्षगार्थः ॥ १९ ॥
ऋत्-उदित्-अचो नम् । २०।। ऋदितः उदितश्च अभ्वादेः अञ्चतेश्च घुटि परे नम् भवति ।
पचन् , पचन्तौ । गोमान् , गोमन्तौ । प्राङ्, प्राञ्चौ । अभ्वादेः इति किम् ? उखास्रत् । भ्वादेः प्रतिषेधात् इह भवत्येव-गोमत्यतेः क्विप् गोमान् ॥ २० ॥
युजिरः असमासे । २१ । 'युजिरी योगे' इत्यस्य असमासे घुटि परे नम् भवति ।
युङ्, युञ्जौ । बहुयुङ् । इरा निर्देशः किम् ? युजि समाधौ-युजं समापन्ना ऋषयः । असमास इति किम् ? अश्वयुक् । घुटि इति किम् ? युजः पश्य । युजी कुले ॥ २१ ॥
अनडुहः सौ । २२। 'अनडुह'शब्दस्य सौ परे नम् भवति । अनड्वान् । बह्वनड्वान् ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org