________________
नाम्नि तृतीयः पादः सखायौ, सखायः, सखायम् , सखायौ । इतः इति किम् ? इमो सख्यौ । 'प्रियसखीनि कुलानि' इत्यत्र तु नित्यत्वात् प्रथममेव नमि सति तेन व्यवधानात् न भवति । नैकामन्त्रणे इति किम् ? हे सखे ! । एकग्रहणं किम् ? हे सखायौ ! ॥ १२ ॥
तृ-स्वसृआदेः डार् । १३।। 'तृ'प्रत्ययान्तस्य 'स्वसृ'आदीनां च अन्तस्य घुटि परे डार् आदेशो भवति, नैकामन्त्रणे। कर्तारौ, कर्तारः, कर्तारम् , कर्तारौ । स्वसारौ । नप्तारौ ।
स्वस नप्त नेष्ट त्वष्ट्र क्षत्त होतृ पोत प्रशास्तृ। केचित् 'शास्तृ'-ग्रहणमपि इच्छन्ति-"प्रणम्य शास्तारम्" [ ] इति । नैकामन्त्रण इति किम् ? हे कर्तः ! । हे स्वसः। डकारोऽन्तादेशार्थः ॥ १३ ॥
कुशः तुनः तृच् टादौ तु स्वरे वा । १४ । कुशः परस्य 'तुन्' प्रत्ययस्य घुटि परे तृच् आदेशो भवति, नैकामन्त्रणे, टादौ तु स्वरे वा ।
क्रोष्टारौ, क्रोष्टारः, अतिक्रोष्टा । घुटि-इति किम् ? क्र.ष्टून् । बहुक्रोप्टु वनम् । नैकामन्त्रण इति किम् ? हे क्रोष्टो ! । [ क्रोष्ट्रा, कोष्टुना । क्रोष्टे, क्रोष्टवे इत्यादि ॥१४॥
_*नि दीर्घः । १५ ।
सू-महतः। १६ । सकारान्तस्य 'महत्'शब्दस्य च स्वरस्य घुटि परे दीर्घः भवति, नैकामन्त्रणे ।
श्रेयांसि । महान्ति कुलानि । सौषि, धनूंषि । श्रेयान् , श्रेयांसौ, श्रेयांसः, श्रेयांसम् , श्रेयांसौ । महान् , महान्तौ । प्रियश्रेयान् । नैकामन्त्रणे इति किम् ? ] हे 'श्रेयन् । हे महन् ॥ १६ ॥
१ अत्र आदर्श [ ] इति चिह्नान्तर्गतः पाठः खण्डितः । केवलम् 'हे श्रेयन् । हे महन् ।' इति आदर्शस्थं शेषभूतं पाठं दृष्ट्वा शाकटायनीयव्याकरणम् ११२.१३५-१।२.१३२१२।१३४- तस्य अमोघवृत्तिसंज्ञिकां च वृत्ति समालोक्य अस्य पाठस्यात्र उपयोगितां चावधार्य उक्तचिह्नान्तर्गतः पाठः समुद्धतः ।।
२ यद्यपि इदं सूत्रं न दृश्यते आदर्श परंतु तद् अतिआवश्यकम् । सूत्रकार एव अत्र सप्तदशतमे सूत्रे तथा एकोनविंशतितमे सूत्रे "नि" इति निर्दिशति अतः अनुमीयते यत् एतत् सूत्रमत्र “नि दीर्घः' अनेन रूपेण पञ्चदशतमं भवेत् तेन च 'राजा' 'राजानौ' इत्यादिप्रयोगेषु दीर्घतासिद्धिः । अस्य सूत्रस्य वृत्तिः एवं कल्पनीया
धुटि परे यो नः तस्मिन् परे नैकामन्त्रणे स्वरस्य दीर्घो भवति । राजा, राजानौ, राजानः, राजानम् , राजानौ । नैकामन्त्रणे इति किम् ? हे राजन् ! । एक इति किम् ? हे राजानौ ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org