________________
५२ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । द्विती० पादः सू० २३ ] इति नस्य असत्त्वात् 'त्य'रूपत्वम् । अस्वरात् इति किम् ? मुख्यात् । अपत्यात् । अतः इति किम् ? सख्याः ॥ ६ ॥
एड: लुक् । ७। एङः परयोः ङसि-ङसोः अतः लुग् भवति । मुनेः, मुनेः । द्योः । गोः ॥ ७ ॥
अणः अमः।८। अणः परस्य अमः अकारस्य लुग् भवति ।
वृक्षम् । खट्वाम् । मुनिम् । साधुम् । नदीम् । वधूम् । वनम् । धनम् । अणः इति किम् ? रायम् ॥ ८ ॥
दीर्घङी-आप-व्यञ्जनात् सेः।९। दीर्घङी-आबन्ताभ्याम् व्यञ्जनात् च परस्य सेः लुग् भवति ।
गौरी । बहुश्रेयसी। शाला । बहुराजा । राजा । तक्षा । दीर्घग्रहणं किम् ? निष्कौशाम्बिः । अतिखट्वः । ङी-आप्-व्यञ्जनग्रहणं किम् ? लक्ष्मीः । कीलालपाः ॥ ९ ॥ ऋत्-उशनस्-पुरुदंशस्-अनेहसः अक्लीबे डा नैकामन्त्रणे । १० ।
ऋकारात् 'उशनस्'आदेश्च अक्लीबे वर्तमानात् परस्य से: डा भवति, न तु एकामन्त्रणे।
पिता । कर्ता । उशना । पुरुदंशा । अनेहा । अक्लीब इति किम् ? कर्तृ कुलम् । नैकामन्त्रणे इति किम् ? हे पितः ! । हे उशनः ! । हे पुरुदंशः ! । हे अनेहः !। एकग्रहणम् उत्तरार्थम् ॥ १० ॥
सख्युः इतश्च । ११ । 'सखि'शब्दात् इकारान्तात् अक्लीबे वर्तमानात् परस्य सेः डा भवति, नैकामन्त्रणे ।
सखा । प्रियसखा । इतः इति किम् ? इयं सखी। सखीयतेः क्रिप्-सखीः । अलीबे इति किम् ? सुसखि कुलम् । चकारः 'अक्लीबे'इत्यस्य अनुकर्षणार्थः तेन उत्तरत्र न अनुवर्तते ॥ ११ ॥
घुटि ऐत् । १२। इकारान्तस्य सखिशब्दस्य घुटि परे ऐकारो भवति, नैकामन्त्रणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org