________________
नाम्नि तृतीयः पादः त्रि-चतुरः स्त्रियां तिस-चतमृ स्यादौ । १। त्रि-चतुर् शब्दयोः स्त्रीलिङ्गे वर्तमानयोः स्यादौ परे यथासंख्यं तिसृ चतसृ इत्यादेशौ भवतः ।
तिस्रः । चतस्रः । तिसृषु । चतसृषु । प्रियतिसा । प्रियचतसा । “असिद्धं बहिरङ्गम् अन्तरङ्गे” [न्यायसंग्रहे न्याय २०, पृ० २०] इति तल्लक्षणः कच् न भवति । स्त्रियाम् इति किम् ? त्रयः । चत्वारः । स्यादौ इति किम् ? प्रियत्रिकः । प्रियचतुष्कः ॥१॥
ऋतः रः स्वरे अनमि । २। तिसृ - चतसृशब्दस्थस्य ऋतः स्यादौ स्वरादौ परे अनविषये रः भवति । तिस्रः । चतस्रः । स्वर इति किम् ? तिसृभिः । अनमि इति किम् ? प्रियतिसगी॥२॥
नीचः वा डि-घुटि ।३।। उपसर्जनयोः तिसृ-चतस्रोः ऋकारस्य ङौ घुटि च अनविषये स्वरादौ परे वा रः भवति ।
. प्रियतिस्त्रि, प्रियचतस्त्रि, प्रियतिसरि, प्रियचतसरि । प्रियतिस्रो, प्रियतिसरौ । प्रियचतस्रौ, प्रियचतसरौ । ङि-घुटि इति किम् ? प्रियतिस्रः स्वम् । नीचः इति किम् ? तिस्रः । परमचतस्रः । अनमि इति किम् ? प्रियतिसृणि । प्रियचतसृणि । स्वर इति किम् । प्रियतिसृभिः ॥ ३ ॥
ऋतः अर् । ४। ऋकारस्य ङौ घुटि च स्वरादौ परे अर् भवति । पितरि । पितरौ । पितरः । पितरम् । पितरौ ॥ ४ ॥
उसि-ङसोः अतः डुः । ५। ऋतः परयोः ङसि-ङसोः अतः डुः भवति ।। पितुः आगच्छति । पितुः स्वम् ॥ ५ ॥
ख्य-त्यात् अस्वरात् उः।६।। ख्य-त्यशब्दाभ्याम् अस्वराभ्यां परयोः ङसि-ङसोः अतः उः भवति । सख्युः, सख्युः । पत्युः, पत्युः । लून्युः, लून्युः । “कित्तादेशः अषि" [ना०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org