________________
५० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । 'राजन्'शब्दस्य सौराज्ये 'न्लोपाभावः - राजन्वान् देशः । “राजन्वत्यस्त्वया प्रजाः" [ ] । अन्यत्र न भवति-राजवान् देशः ॥ ७२ ।।
न ऊर्मि-आदिभ्यः । ७३ । एभ्यः परस्य मतोर्मकारस्य वकारो न भवति । ऊर्मिमान् । यवमान् ।
ऊर्मि । भूमि । दल्मि । कृमि । यव । क्रुञ्चा । वशा । द्राक्षा । गरुत् । हरित् । ककुद् । दु । मधु इति ऊर्मि-आदिः ॥ ७३ ॥
ख्यानः यः सवत् । ७४। ख्याञः संबन्धी यकारः सकारवत् वेदितव्यः ।
पुंख्यानम्-अत्र “पुमः अघोषे अशिटि अधुट्परे” [ पञ्च० सन्धिः सू०२४ ] इति सक् न भवति । नमः ख्यात्रे-अत्र “क-ख-प-फयोः क-)(पौ" [पञ्च० सन्धिः सू०२८] इति न भवति । पर्याख्यानम्-अत्र “श्-चु-ल्-टु-स्-तौ" [ नाम० द्विती० पादः सू०१७] इति णत्वप्रतिषेधः । सौप्रख्यम् अत्र य-उपान्तलक्षणो वुञ् न भवति ॥ ७४ ॥
दिवः औः सौ । ७५ । दिवः सौ परे औकार-अन्तादेशो भवति ।
द्यौः। हे द्यौः ! । प्रियद्यौः । अत्र 'दिव्'शब्दस्य अक्रियावाचिनः ग्रहणात् इह न भवति-अक्षयूः ॥ ७५ ॥
उः पदान्तेऽनूत् । ७६ । 'दिव्'शब्दस्य पदान्ते वर्तमानस्य उकारः-अन्तादेशो भवति, अनूत् चेत् ।
विमलघु दिनम् । धुभ्याम् । अनूत् इति किम् ? अद्यौः द्यौः भवति युभवति-अत्र चौ दी? न भवति । वृद्धिस्तु भवत्येव-द्यौका मिः ॥ ७६ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ नाम्नि द्वितीयः पादः समाप्तः ।।
१. अनेन सूत्रेण विहितः उकारो दो| न भवति, अत एव अद्यौः द्यौः भवति इति च्वी अपि 'भवति' इत्येव प्रयोगो जायते, 'भवति' इति न हि भवति इति तात्पर्यम् 'अनूत्' इत्यस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org