________________
नाम्नि द्वितीयः पादः
[ ४९ न आमन्त्र्ये । ६७। आमन्त्र्ये अर्थे वर्तमानस्य पदस्य अन्तनकारलोपो न भवति । हे राजन् ! ॥ ६७ ॥
नपि वा न । ६८। आमन्त्र्ये नपुंसकेऽर्थे वर्तमानस्य नकारान्तस्य पदस्य अन्तलोपो वा भवति । हे चर्म, हे चर्मन् ॥ ६८ ॥
नि हनेः हः घः । ६९। हनेः हकारस्य नकारे परे धकार-आदेशो भवति । वृत्रन्ना । नन्ति । हन इति किम् ? अह्नः ॥ ६९ ॥ म-अवर्णान्त-उपान्त्य-अपश्चमेवात् मतोः मः वः । ७० ।
मकारान्तात् अवर्गान्तात् मकारोपान्त्यात् अवर्णोपान्त्यात् पञ्चमवर्जात् वाच्च परस्य मतोः मकारस्य वकार-आदेशो भवति । किंवान् । वृक्षवान् । शमीवान् । पयस्वान् । विद्युत्वान् ॥ ७० ॥
. नाम्नि । ७१ । नाम्नि विषये मतोः मकारस्य वकार-आदेशो भवति । अहीवती, कपीवती, मुनीवती एवंनामानो नद्यः ॥ ७१ ॥
अष्ठावत्-आदिः । ७२ । एते 'मतु'प्रत्ययान्ता निपात्यन्ते ।
अस्थिशब्दस्य मतो 'अष्ठी'भावे अष्ठीवान् शरीरैकदेशः । 'चक्र'शब्दस्य चक्रीवान् रासभः राजा वा कश्चित् । 'कैदया'शब्दस्य कक्षीवान् ऋषिः कश्चित् । 'चर्मन्'शब्दस्य 'न्'लोपाभावे चर्मण्वती नाम नदी। 'लवण'शब्दस्य रुमण्वान् नाम पर्वतः मन्त्री वा कश्चित् । अन्यत्र न भवति-अस्थिमान् । चक्रवान् । कदयावान् । चर्मवान् । लवणवान् । 'उदक'शब्दस्य संज्ञायां जलधारके च 'उदन्'भावः-उदन्वान् ऋषिः समुद्रो वा । उदन्वान् मेघः घटो वा । 'उदकवान् घटः' इत्यत्र उदकसंबन्धमानं विवक्षितम् न धारणम् ।
१.-मवर्णात् पा० । २. 'कक्षा'श-पा० । पू० । ३. कक्षावान् पा• पू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org