________________
४८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ... पृष्टः । उपविष्टः । भ्रष्टाः । स्रष्टा । देवेट् । धानाभृट् । 'वश्च'आदिसाहचर्यात् धातोरेव छ-शोर्ग्रहणम् तेन इह न भवति-निशा-निग्भ्याम् । .
भ्रस्ज सृज मृज यज राज भ्राज व्रश्च इति भ्रस्जादि । बहुवचनं यङः श्लुचि अपि भावार्थम्-बरीभृट् इत्यादि । ६१ ।।
संयोगस्य आदिस्-कोः लुक् । ६२ । धुडादौ प्रत्यये परे पदान्ते च यः संयोगः तस्य आदौ सकारस्य ककारस्य च लोपो भवति ।
लग्नः । लग्नवान् । तष्टा । काष्ठतट । धुट-पदान्ते इति किम् ? काष्ठतक्षौ । 'प्रत्यये' इति अधिकारात् इह न भवति-शक्थोता । काक्यर्थम् , वास्यर्धम् इति बहिरङ्गस्य यत्रः असिद्धत्वात् अनेन उत्तरेण च लुग् न भवति ।। ६२ ॥
पदस्य । ६३ । संयोगान्तस्य पदस्य अन्तलोपो भवति । श्रीमान् । पदग्रहणं धुटः निवृत्त्यर्थम्-स्यन्त्वा ॥ ६३ ॥
रात् सः। ६४।। रेफात् परस्य सकारस्य लोपो भवति ।
चिकीाम् । “पदस्य" [ ना० द्विती० पादः सू० ६३ ] इति सिद्धे नियमार्थ वचनम् । “धुवच अन्यतः" [१० सन्धिः सू० १५] इति निर्देशात् 'रात् सः एव' इति नियमः तेन इह न भवति-ऊम् ॥ ६४ ॥
तिब-आदेः । ६५ । तिबाद्यन्तस्य संयोगान्तस्य पदस्य अन्तलोपो भवति । अजागर् भवान् ।अवावक् ॥ ६५ ॥
नाम्नः नः अन्अनः। ६६ । 'अहन्'वर्जितस्य नाम्नः पदस्य अन्तनकारस्य लोपो भवति ।
राजा । राजभ्याम् । नाम्नः इति किम् ? अपचन् । अन्अह्नः इति किम् ? अहः । पदस्य इति किम् ? राजानौ ॥ ६६ ॥
१ पृ० ४७ टिप्पण २ । २ 'काष्ठशकस्थाता' इति काशिकायाम् ।८।२।२९। ३ -क्यर्थः, वा-पा. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org