SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ नाम्नि द्वितीयः पादः [ ४७ दोग्धा । गोधुक् । दादेः इति किम् ? गुडलिट् । भ्वादेः इति किम् ? दामलिट् । - पदान्त इति किम् ? गोदुहौ ॥ ५५ ॥ मुहादीनां वा । ५६ । 'मुह' आदीनां हकारस्य धुडादौ प्रत्यये परे पदान्ते च घकार - आदेशो वा भवति । मोग्धा, मोढा । द्रोग्धा, द्रोढा । उन्मुक्, उन्मुट् । ह ह ह ह इति मुहादि । बहुवचनं यङ: लुचि अपि भावार्थम् - मोमोग्धि, मोमोदि ।। ५६ । नहेः धः । ५७ । नहेः हकारस्य धुडादौ प्रत्यये परे पदान्ते च धकार - आदेशो भवति । ना । उपानत् ॥ ५७ ॥ अनड्डुहः दः । ५८ । 'अनडुहू' शब्दस्य धुटि पदान्ते च दकार - आदेशो भवति । स्वनडुत् । अनडुद्भ्याम् ॥ ५८ ॥ चोः कुः । ५९ । चवर्गस्य घुडादौ प्रत्यये परे पदान्ते च कवर्ग - आदेशो भवति । वक्ता । वाक् । “प्रत्यये” इत्यधिकारात् इह कुत्वं न भवतिः - इच्छेति । इदं चञ्चुः । इदंचगः इत्यादौ लाक्षणिकत्वात् न भवति ॥ ५९ ॥ युजि - अञ्चिक्रुञ्चः । ६० । एषाम् अन्तस्य घुडादौ प्रत्यये पदान्ते च कवर्ग - आदेशो भवति । I 1 युङ् । प्राङ् । क्रुङ् । धुटि पूर्वेण एव सिद्धे, पदान्ते "पदस्य " [ ना० द्विती० पादः ६३ ] इति लोपे नकारस्य न सिध्यति इति वचनम् । 'क्रुञ्चः' इति अत एव निर्देशात् क्विपि 'न'लोपाभावः । 'युज' आदि साहचर्यात् चवर्गस्य धातोरेव स्यात् इति पृथग्योगः ॥ ६० ॥ छ-श- भ्रस्जादीनां षः । ६१ । छकारस्य शकारस्य ‘भ्रस्ज' आदीनां च अन्तस्य धुडादौ प्रत्यये परे पदान्ते च षकार - आदेशो भवति । १ अनडुहः दः ॥ अनडुह् (द् ) अनडुद्भ्याम् पू० । २ अस्मिन् पादे तृतीयसूत्रे 'प्रत्यये' इति पदं वर्तते । ३ अत्र पदान्ते चवर्गस्य अभावात् तथा धुडादिप्रत्ययस्याऽपि असत्त्वात् न घटते इदमुदाहरणम् । ४ अत्र 'च'स्य कत्वं कथं प्राप्तमिति न गम्यते, अत एव च अस्पष्टं विभाति । शाकटा० अमोघवृत्तौ अपि एतादृशमेत्र । १ । २ । ८८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy