________________
४६] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
येङः वा । ४९। धाञः य”लुगन्तस्य दकारादेश्चतुर्थान्तस्य धुडादौ प्रत्यये परे आदेश्चतुर्थो वा भवति । धात्तः । धात्थः । पक्षे दात्तः । दात्थः । धुटि इति किम् ? दाध्वः ॥ ४९ ॥
धेटः चतुर्थात् त-थोः । ५० । धेटः यश्लुगन्तात् चतुर्थान्तात् परयोः तकार-थकारयोः चतुर्थो वा भवति । दादः । दादः । पक्षे दात्त: । दात्थः । धेट इति किम् ? धात्तः । धात्थः ॥५०॥
अधः । ५१। दधातिवर्जात् चतुर्थात् परयोः तकार-थकारयोः चतुर्थो भवति । दोग्धा । लब्ध्वा । अध इति किम् ? धत्तः । धत्थः ॥ ५१ ॥
नामिनः अद्यतनी-परोक्षा-आशिषो धः ढः। ५२ ।
नामिनः परासाम् अद्यतनी-परोक्षा-आशिषां संबन्धिनः धकारस्य ढकारादेशो भवति ।
__ अच्योढ्वम् । चकृट्वे । चेषीढ्वम् । नामिन इति किम् ? पक्षीध्वम् । अद्यतनीपरोक्षा-आशिषामिति किम् ? स्तुध्वे ॥ ५२ ॥
ह-यत्रः जीड्भ्यां वा । ५३ । हकारात् यज्ञश्च परस्मात् भिचः निटश्च परासाम् अद्यतनी-परोक्षा-आशिषां संबन्धिनः धकारस्य ढकारादेशो वा भवति ।
ग्राहिषीदवम् , ग्राहिंषीध्वम् । उपदिदीयिट्वे, उपदिदीयिध्वे । संवलिषीदवम् , संवलिषीध्वम् । ह-या इति किम् ? आसिषीध्वम् ।। ५३ ।।
- हः धुट्-पदान्ते । ५४। हकारस्य धुडादौ प्रत्यये परे पदान्ते च ढकारादेशो भवति । लेढा । गुडलिड्भ्याम् । धुट्-पदान्त इति किम् ? गुडलिहौ ॥ ५४ ॥
दादेः भ्वादेः घः । ५५ । भ्वादेः धातोः दकारादेः अवयवस्य संबन्धिनः हकारस्य धुटि परे पदान्ते च घकार-आदेशो भवति ।
१ "यङः अन्येषाम्" । १२ । २ । ७८ । इति शाकटायनीयं सूत्रम् । “अन्येषाम्-एकेषामाचार्याणां मतेन"- अमोववृ० १ । २ । ७८ । २ अत्रापि 'अन्येषाम्' इति अनुवर्तते शाकटायने । ३ 'आशिषाम्' इति पाठो न सूत्रगतः किन्तु वृत्तिगतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org