________________
नाम्नि द्वितीयः पादः
अह्नः । ४३ । 'अहन् ' शब्दस्य पदान्ते रिः अन्तादेशो भवति । अहः । अहोभ्याम् ।। ४३ ॥
रः अस्यादि-रूप-रात्रि-रथन्तरे स्वर-घोषवति । ४४ ।
'अहन्'शब्दस्य पदान्ते स्यादि-रूप-रात्रि-रथन्तरवर्जिते स्वरे घोषवति च परे रः-अन्तादेशो भवति ।
अहरधीते । अहर्दधाति । अस्यादि-रूप-रात्रि-रथन्तर इति किम् ? अहोभ्याम् । अहोरूपम् । अहोरात्रः । अहोरथन्तरम् । स्वर-घोषवति इति किम् ? अहः करोति ।। ४४॥
रः सुपि । ४५। रेफस्य सुपि परे रः -अन्तादेशो भवति । गीर्षु । धूर्षु । ‘पयस्सु' इति रेः असत्त्वाद् न भवति । रेफस्य वचनं विसर्गबाधनार्थम् ।। ४५ ।।
धुटः तृतीयः । ४६ । धुटः पदान्ते वर्तमानस्य तृतीय आदेशो भवति ।
षड् । षड्भिः । वाग् । वग्भिः । उखासद् । पर्णध्वद् । पदान्ते इति किम् ? वाचौ ॥ ४६॥ ग-ड-दसआदेः चतुर्थान्तस्य एकस्वरन्य आदेश्चतुर्थः
स्-ध्वे च प्रत्यये । ४७।। ग-ड-द-बआदेः चतुर्थान्तस्य एकस्वरस्य शब्दावयवस्य आदेः चतुर्थ आदेशो भवति पदान्ते, सकारादौ व्वशब्दादौ च प्रत्यये परे ।
पर्णघुट । पर्णवुड्भ्याम् । तुण्डिभम् आचक्षाणः कुर्वा गो वा तुण्ढिप् । गोधुक् । स्-ध्वे-भोत्स्यते । अभुगध्वम् । ग-ड-द-बआदेः इति किम् ? क्रुत् । क्रोत्स्यति। चतुर्थान्तस्य इति किम् ? सुगण । दास्यति । एकस्वर इति किम् ? दामलिट् । स्-ध्वे च-इति किम् ? धर्मबुधौ ॥ ४७॥
धात्रः धुटि । ४८। धाञः चतुर्थान्तस्य दकारादेः धुडादौ प्रत्यये परे आदेः चतुर्थ आदेशो भवति ।
धत्तः । धत्थः । धत्ते । धत्से । धुटि इति किम् ? दध्वः । चतुर्थान्तस्य इति किम् ? दधाति ॥ ४८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org