SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । म्-वोश्च मः निः । ३६ । मकारस्य भ्वादेः अन्तस्य पदान्ते मकार-वकारयोश्च परयोः नकार आदेशो भवति । प्रशान् । प्रशान्भिः । म्वोः - नंनन्मः । नंनन्वः । म्-वोश्व इति किम् ? प्रतामौ । भ्वादेः इति किम् ? इदम् ॥ ३६ ॥ ४४ ] नशेः गः वा । ३७ । नशेः पदान्ते वर्तमानस्य गः अन्तादेशो वा भवति । जीवनक् । जीवनग्भ्याम् । पक्षे जीवनट् । जीवनड्भ्याम् ॥ ३७ ॥ ऋत्विज्-आदेः । ३८ । ऋत्विज - आदेः पदान्ते गः अन्तादेशो भवति । ऋत्विग् । दिग् । पदान्त इति किम् ? ऋत्विजौ । दिशौ । ऋत्विज् । दिश् । स्पृशू। दधृषु । उष्णिह् । इति ऋत्विजादिः ॥ ३८ ॥ सः अक्वसु-स्रंस्-ध्वंसः रिः । ३९ । क्वस्- संस्-ध्वंस्वर्जितस्य सकारस्य पदान्ते वर्तमानस्य रिः आदेशो भवति । निजः । पयस्सु । अक्वसु-संस्-ध्वंस इति किम् ? उपसेदिवत् कुलम् । उखास्रत् । पर्णध्वत् । पदान्त इति किम् ? पयसा ॥ ३९॥ न दिपि । ४० । सकारस्य पदान्ते वर्तमानस्य दिपि परे रिर्न भवति । अचकात्, अन्वशात् भवान् ॥ ४० ॥ सिपि द-धोः वा । ४१ । पदान्ते वर्तमानयोः दधोः सकारस्य च सिपि परे रिर्वा भवति । अभिनस्त्वम्, अभिनत् त्वम् | अरुणस्त्वम्, अरुणत् त्वम् । अचकात् त्वम् ॥ ४१ ॥ Jain Education International सजुषः । ४२ । सजुषः पदान्ते रिः अन्तादेशो भवति । सजूः । सजूर्भ्याम् ॥ ४२ ॥ For Private & Personal Use Only अचकास्त्वम्, www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy