________________
नाम्नि द्वितीयः पादः कृतस्य असक्-सातः अपद-बहोः षिः। ३० । सक्-सात्वर्जितस्य कृतस्य सकारस्य षिः-आदेशो भवति, न चेत् सकारः पदात् बहुप्रत्ययाच परो भवति ।
वाक्षु । एषा । कृतस्य इति किम् ? असिस्रकत् । असक्-सातः इति किम् ? दधिस्यति । मुनिसात्करोति । अत एव सातः प्रतिषेधात् “नाम सित्-अयव्यञ्जने" [द्वि० सन्धिः सू० १० ] इति पदात् अप्रतिषेधः-अग्निषु । अपद-बहोः इति किम् ? दधिसेक् । बहुसेक् । 'मुनिस्तरति' इत्यादौ "सोः" [ना० द्विती० पादः सू० ३१] इति वचनस्य नियमार्थत्वात् “असिद्धं बहिरङ्गमन्तरङ्गे" [न्यायसंग्रहे न्याय २०, पृ० २०] इति न्यायाद् वा न भवति ॥ ३०॥
सोः। ३१ । सोः स्थाने धिर्भवति ।
द्विष्करोति । पूर्वेणैव सिद्धे पदान्ते नियमार्थम् “असिद्धं बहिरङ्गमन्तरङ्गे" [ न्यायसंग्रहे न्याय २०, पृ० २०] इति न्यायाद् अप्राप्तौ वा वचनम् ॥ ३१ ॥
शासि-वसि-घसः। ३२ । एषां सकारस्य विर्भवति ।। अशिषत् । उषितः । जक्षतुः । घसिः प्रकृत्यन्तरमस्ति इति उपात्तः ॥ ३२ ॥
_ष-ढोः कः से । ३३ । षकार-ढकारयोः सकारे परे ककारादेशो भवति, स च परस्मिन् विधौ असन् ।
पेक्ष्यति । लेक्ष्यति । से इति किम् ? द्वेष्टि ॥ ३३ ॥ भ्वादेः इकः दीर्घः अकुरु-छुरः वोः न-अतद्धितयव्यञ्जने । ३४ ।
कुरु-छुरवर्जितस्य भ्वादेः इकः तदवयवे वकारे रेफे च परे दीर्घो भवति, नकारे तद्धितयवर्जिते व्यञ्जने परे ।
प्रतिदीना । शीर्णम् । धूर्वति । भ्वादेः इति किम् ? चतुर्भिः । चतुर्यति । तदवयवयोः इति किम् ? दिव्ना-दीव्यता इत्यर्थः । अकुरु-छुर इति किम् ? कुर्यात् । छुर्यात् । 'कुरु' इति उकारः किम् ? कुरत् शब्दे-कुर्यात् । अतद्धितय - इति किम् ? गियेः । धुर्यः । तद्धितग्रहणं किम् ? दीव्यति ॥ ३४ ॥
पदान्ते । ३५। भ्वादेः इकः वकारे रेफे च परे पदान्ते दीर्घो भवति । आशीः । गीषु ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org