SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४२] आचार्यश्रोमलयगिरिविरचितं शब्दानुशासनम् । कित्तादेशः अषि । २३ । कितः तकारस्य स्थाने यः आदेशः स षकारात् अन्यस्मिन् परे विधी कर्तव्ये असन् भवति । क्षामिमान् । लून्युः । पून्युः । अषि इति किम् ? वृक्गः । वृक्णवान् । परे इति किम् ? लग्नः “अघोषे प्रथमः अशिटः' [ पञ्च० सन्धिः सू० ८] इति प्रथमो न भवति ॥२३॥ कु-नामि-यत्रः सेः षिः । २४ । इयमपि परिभाषा स्थानि-निमित्तनियमार्था । य इह शास्त्रे षिविधास्यते स सर्वः कवर्गात् नामिनः यञश्च परस्य सकारस्य स्थाने वेदितव्यः । परस्मिश्च कार्ये असन् । "कृतस्य असक्-सातः अपद-बहोः षिः" [ना० द्विती० पादः सू० ३०] वाक्षु । क्रुषु । सर्पिषा । गीर्षु । कु-नामि-या इति किम् ? शालासु ॥२४॥ एति अकः । २५ । श्रीषेणः । कु-नामि-या इति किम् ? वीरसेनः ।। २५ ॥ शिट-नमः अपि । २६ । इयमपि परिभाषा । कु-नामि-यत्रः परात् शिटः नमश्च अपि परस्य सकारस्य स्थाने विर्भवति । सर्पिष्षु । धनुष्षु । सपौषि । 'नम्'ग्रहणं नम एव अनुस्वारे यथा स्यात् तेन इह न भवति–पुंसु । 'निस्से' इत्यत्र कु-नामि-यञः परात् शिटः परो नास्ति इति न भवति ॥२६।। सिचः न यङि । २७ । सिचो धातोर्यङि परे पिः-आदेशो न भवति । सेसिच्यते । अभिसेसिच्यते । यङि इति किम् ? सिषेच । अभिषिषिक्षति ॥२७॥ सुत्रः स्य-सनि । २८ । सुञः स्ये सनि च परे पिः-आदेशो न भवति । अभिसोस्यति । सुसूषति । स्य-सनि इति किम् ? सुषाव । अभिषुणोति ।। २८ ।। सेधतेः गतौ । २९ । सेधतेः गतौ वर्तमानस्य षिः-आदेशो न भवति । अभिसेधति गाः । गतौ इति किम् ? प्रतिषेधति अकार्यात् ॥ २९ ॥ १ “'नम्' ग्रहणम् अनुस्वारनियमार्थम् "-शाक० अमोघवृ० १ । २ । ६१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy