SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ नाम्नि द्वितीयः पादः अतद्धिते पदेऽनाङि । १८ । आङ्वर्जिते पदे स्थानि-निमित्तयोः अन्तरे सति नकारस्य णो न भवति, न चेत् तस्मात् पदात् परः तद्धितप्रत्ययः स्यात् । पर्यवनद्धम् । माषकुम्भवापेन । चतुरङ्गयोगेन । अनाङि इति किम् ? प्राणद्धम् । अतद्धित इति किम् ? आईगोमयेण ॥ १८ ॥ अन्तस्य । १९ । पदे अन्तभूतस्य नकारस्य णो न भवति । वृक्षान् ॥ १९ ॥ अभिन्ने णः । २० । 'न' इति निवृत्तम् | रेफात् षकाराच्च परस्य नकारस्य णो भवति, न चेत् स नकारः निमित्त पदात् भिन्ने पदे भवति । तीर्णः । पूर्णः । प्रसज्यप्रतिषेधाश्रयणात् 'मेषनासिकः' इत्यादौ न भवति, अत्र हि समासपदस्य अभिन्नत्वेऽपि अवयवौ भिन्ने एव पदे । 'खारपायणः' इत्यादौ तु नकारः प्रत्ययस्थः न भिन्नपदस्थ इति भवत्येव ॥ २० ॥ पूर्वपदस्थात् वा अन्त- स्यादि - नमः | २१ | पूर्वपदस्थात् रेफात् षकाराच्च परस्य उत्तरपदस्य अन्तभूतस्य स्याद्यवयवस्य, नमश्व नकारस्य णो वा भवति । ६ [ ४१ माषवापिणौ, माषवापिनौ । माषवापेण, माषवापेन । माषवापाणि, माषवापानि । पूर्वपदस्थात् इति किम् ? कूपवारिणा, पुरुषकारेण इति अन्तरङ्गत्वान्नित्यमेव । अन्तस्यादि-नम इति किम् ? दाक्षीणां भगिनी दाक्षिभगिनी । 'आर्ययूना, प्रपक्वानि' इति क्षुम्नादित्वात् न भवति ॥ २१ ॥ सकु - एकस्वरयोः । २२ । पूर्वपदस्थात् रेफात् षकाराच्च परस्य सकवर्गस्य एकस्वरस्य च उत्तरपदस्य अन्तभूतस्य, स्याद्यवयवस्य नमश्च नकारस्य नित्यं णकारो भवति । मोक्षगामिणौ । ऋषिमुखेण । क्षीरमेघाणाम् । एकस्वर - वृत्रहणौ । क्षीरपेण । माषपाणि ॥ २२॥ १ चतुर्दशतमं सूत्रं पादेऽस्मिन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy