________________
४० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । रेफात् षकाराच्च नकारस्य स्थाने वेदितव्यः, इतश्च परस्मिन् कार्ये असन् ।
“अभिन्ने णः" [ना० द्विती० पादः, सू० २०]- चतुर्णाम् । पूष्णः । र-षात् इति किम् ? यज्वना ।
"णोऽसोः"-रविणागः। र-षात् इति किम् ? देवनागः ॥ १३ ॥
न शुभ्नादीनाम् । १४ । एषां नकारस्य णो न भवति । क्षुम्नाति । तृप्नोति ।
क्षुम्ना । तृप्नु । आचार्यानी । आचार्यभोगीन । युवन् । अहन् । पक्व । नृनमन । सर्वनामन् । नट । नद । नगर । नृत्त । नदी। निवेश । निवास । अग्नि । अनूप । नन्दिन् । नन्दन । नर्तन । गहन । नदन । "अन्तरः अयन-हनो देशे" इत्यादि ॥ १४ ॥
नृतेः यङः। १५ । नृतेर्धातोः यङन्तस्य नः णः न भवति । नरीनृत्यते । नरिनर्ति ॥ १५ ॥
हनः घ्यन्तरे । १६ । हनेः प्रकारे स्थानि-निमित्तयोर्व्यवधायके सति नकारस्य णो न भवति । वृत्रता । घि इति किम् ? वृत्रहणौ ॥ १६ ॥
श्-चु-ल-टु-स्-तौ । १७। शकारे चवर्गे लकारे टवर्गे सकारे तवर्गे च स्थानि-निमित्तयोरन्तरे सति नकारस्य णो न भवति ।
शकारे-रशना। चवर्गे-अर्चनम्। लकारे-वृषलेन। प्रक्लृप्यमानम्। अत्रापि लकारेण व्यवधानम् स्वरभागमध्यगतलकारं हि लवर्ण प्रतिजानते पूर्वे । टवर्गे-पृष्टेन ।दृढेन । करणेन । सकारे-रसना । तवर्ग-नर्तनम् । तीर्थेन । षकारात् अव्यवधाने नकारस्य णः 'एटुना ष्ट्र' [पञ्च० सन्धिः सू० १० ] इत्येव सिद्धः इति तदुपादानात् अतः प्रतिषेधवचनात् वा अन्यस्मिन् अन्तरेऽपि भवति । पितृणाम् । स्वरभागमध्यगतरेफ हि ऋवर्ण प्रतिजानते पूर्वे । ऋषिणा । बृंहणम् । उरःकेण । शुष्केण । अर्पण । दर्पण ॥ १७ ॥
१ वार्तिकवचनमेतत् । “णोऽसेः' रविणागः, शूर्पणखा"-अमोघवृ० । १।२।५० । "णोऽसेः" इति शाकटायनीयसूत्रम् । २ । २ । १५९ । अतः 'रविणागः' इति उदाहरणं भवेत् इति कल्पना । २“देशे अन्तरः अयन-हनः" । २।३।९१ । इति हेमचन्द्रीय सूत्रं णत्वनिषेधकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org