________________
नाम्नि द्वितीयः पादः असत्त्वेऽमू, सुकर्माणः, पिपठी:, सुभुद् , औजिढत् । गुडलिण्मान् , भवान् , इष्टम् , राजभिश्च इति सिध्यति ॥ ८ ॥
वा अद्रेः। ९॥ अन्यन्तस्य अदसः दकारस्य यथासंभवं विकल्पेन मकारादेशो भवति, अस्माच्च मकारात् परो गुवर्णः, स च असन् । अमुद्रयङ । अदमुयङ् । अमुमुयङ् । अदद्रयङ् ॥ ९ ॥
गीः बहुषु एः । १० । बहुषु वर्तमानस्य अदसः मकारात् परस्य एकारस्य स्थाने 'गीः' इत्यादेशो
भवति ।
अमी । अमीभिः । बहुषु इति किम् ? अमू कुले कन्ये वा । माद् इति किम् ? अमुकेभ्यः ॥ १० ॥
नः लुक् स्याद्याश्रये । ११ । स्यादौ परे पूर्वस्य स्यादेश्च कार्ये कर्तव्ये नकारस्य लुक् असती च भवति ।
राजभ्याम् । राजभिः । स्याद्याश्रय इति किम् ? राजीयति । 'वृत्रहभ्याम्' इत्यत्र "असिद्धं बहिरङ्गमन्तरङ्गे" [ न्यायसंग्रहे न्याय २०, पृ० २० ] इति तक् न भवति । 'स्याद्याश्रय एव' इति नियमार्थ वचनम् ।। ११ ॥
परे । १२ । इतः ऊर्ध्वम् ‘न ऊर्यादिभ्यः' [ ना० द्विती० पादः सू० ७३ ] इत्यतः प्राक् वक्ष्यमाणो विधिः परस्मिन् कार्ये असन् वेदितव्यः ।
पिपठीः । गुडलिण्मान् । पर इति किम् ? सर्पिष्टरम् । 'काष्ठतट्' इत्यादौ स्कोर्लक् , असति न भवति, वचनात् ॥ १२ ॥
र-षात् नः णः । १३ । परिभाषा इयम् स्थान-निमित्तनियमार्था । इह शास्त्रे यः णः विधेयः स सर्वः
१ “ 'काष्ठतट्' इति अपवादः वचनप्रामाण्यात् "-शाक. अमोघवृ० । १ । २ । १९ । अत्र 'काष्ठतक्ष्' इति अवस्थायां [ 'संयोगस्य” ना० सू० ६२ ] इत्यनेन 'क्ष् इत्यत्र आदिस्थस्य ककारस्य लोपे 'काष्ठतम्' इति जाते [ "धुटः तृतीयः" ना० सू० ४६] इत्यनेन षस्य डत्वे ततश्च डस्य टत्वे 'काष्ठतट्' इति सिध्यति । अत्र "संयोगस्य" इत्यादिना कलोपस्य असत्त्वे ["पदस्य" ना. सू० ६३ ] इत्यनेन ''लोपः कथं न स्यात् ? इति प्रश्ने वचनात्-वचनप्रामाण्यात् 'ष' लोपो न भवति इति आशयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org