SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । शेषयोः उव्- इयौ । ४। धातोः संबन्धिनोः शेषयोः उवर्ण-इवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यम् उव् इय् इत्यादेशौ भवतः । लुवौ । नियौ । लुलुवतुः । शिश्रियतुः । नयनम्, लवनम् इत्यादौ परत्वात् गुणः । स्वर इति किम् ? लुभ्याम् | जीभ्याम् ॥ ४ ॥ ३८ ] [ - व्यञ्जनश्नोः ] । ५ । 'भ्रू’शब्दस्य व्यञ्जनात् परस्य श्नोश्व संबन्धिनः उवर्गस्य स्वरादौ प्रत्यये परे उब् आदेशो भवति । भ्रुवौ । भ्रवः । आप्नुवन्ति । व्यञ्जनग्रहणं किम् ? चिन्वन्ति । स्वरादौ इति किम् ? आप्नुतः । ५ ॥ स्त्रियाः । ६ । स्त्रीशब्दस्य संबन्धिनः इवर्गस्य स्वरादौ प्रत्यये परे इय् आदेशो भवति । स्त्रियौ | अतिस्त्रियौ । 'स्त्रीगाम्' इत्यत्र नित्यत्वात् नाम् ॥ ६ ॥ वा अम् - शसि । ७। स्त्रीशब्दस्य संबन्धिनः इवर्णस्य अमि शसि च परे वा इयू आदेशो भवति । स्त्रियम्, स्त्रीम् । स्त्रियः, स्त्रीः । अतिस्त्रियम्, अतिस्त्रीम् । अतिस्त्रियः, अतिस्त्रीः ॥ ७ ॥ अवर्णस्य अदसः दः मः अस्माद् वर्णो गुवर्णश्च अपि-नि असन् । ८ा अदसः अवर्णान्तस्य संबन्धिनः दकारस्य मकारो भवति, अस्माच्च मकारात् परो वर्ण : गुवर्णः, स च षेः 'ना' भावाच्च अन्यस्मिन् कार्ये असन् । अमुम् । अमू । अवर्णस्य इति किम् ? अदः कुण्डम् । प्रियादसौ । चकारः संनियोगशिष्टतार्थः, तेन उत्तरत्र गुवर्णो न विकल्प्यते । अपि-नि इति किम् ? अमुष्मै । अमुना । असन् इति किम् ? अमुया । 'असन्' इति अधिकारः 'न ऊम्र्यादिभ्यः ' [ ना० द्विती० पादः सू० ७३ ] इति यावत् । १. आदर्शद्वयेऽपि नैतत् मूलसूत्रम् तथापि वृत्त्यनुसारेण योजित इयुवौ” |१| २|४१| इति शाकटायनसूत्रम् । Jain Education International For Private & Personal Use Only 'अ-हल्नोश्च "" www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy