________________
नाम्नि द्वितीयः पादः
धातोः गति - कारकसमस्त अनेकस्वरस्य अतत्संयोगात् उवर्णः वः स्वरे । १ ।
धातोः गतिना कारकेण च समस्तस्य अनेकस्वरस्य च संबन्धिनः उवर्णस्य स्वरादौ स्यादौ परे वकार आदेशो भवति, न चेत् स उवर्णो धातोः अवयवात् संयोगात् परो भवति ।
सुवौ । सुल्वः । यवल्वौ । यवल्वः । वसु इच्छति क्यच् वस्वौ । वस्वः । गतिकारकसमस्त-अनेकस्वरस्य इति किम् ? लुवौ । लुवः । अतत्संयोगात् इति किम् ? कौ । 'तत्' ग्रहणात् इह प्रतिषेधो न भवति उल्ल्वौ । स्वरे इति किम् ? सुलूः । स्यादौ इति किम् ? लुलुवतुः ॥ १ ॥
हन्- पुनर्-कर-वर्षाभिः भुवः । २ ।
'' आदिभिः सह समस्तस्य भूधातोः ऊवर्णस्य स्वरादौ स्यादौ परे वकारादेशो भवति ।
वौ । पुन । करभ्वौ । एकदेशविकृतस्य अनन्यत्वात् कारभ्वौ । वर्षाभ्वौ । 'दृन् 'आदिभिः किम् ? स्वयंभुवौ । 'दृन् 'आदिभिः पूर्वेणैव सिद्धे [र्द्धम् ] तेषां नियमार्थं वचनैम् ॥२॥
इवर्णस्य असुधी- इणः प्रत्यये यः । ३ ।
गति - कारक समस्तस्य अनेकस्वरस्य च धातोः सुधी- इण्वर्जितस्य संबन्धिनः इवर्णस्य स्वरादौ प्रत्यये परे यकार आदेशो भवति, न चेत् स इवर्णः तस्य धातोः अवयवात् संयोगात् परः स्यात् ।
सुन्यौ । सुन्यः । सेनान्यौ । सेनान्यः । ऌन्युः । पून्युः । चिच्ये । निन्ये । अमुधीइणः इति किम् ? सुधियौ । सुधियः । ईयतुः । ईयुः । अत एव इणः प्रतिषेधात् "प्रकृतिप्रत्यययोः प्रत्ययकार्यं बलीयैः " [ ] तेन इयादेशे कृते दीर्घः । गति - कारकसमस्तअनेकस्वरस्य इति किम् ? नियौ । परमनियौ । अतत्संयोगात् इति किम् ? यवक्रियौ । शिश्रियतुः । 'तत्' ग्रहणात् इह प्रतिषेधो न भवति - उन्न्यौ ॥ ३ ॥
१. भुवौ । भुत्रः । पू० । २. प्रतिगतः पाठः । ३. “ एतैरेव भुत्रः नान्यैः इति " - शाक० अमोघवृ० ।१।२।३९ । ४. “ प्रत्यया-ऽप्रत्यययोः प्रत्ययस्यैव " इति न्यायसंग्रहे न्यायः २, पृ० ५१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org