________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
श्रियै, श्रिये । श्रियाः, श्रियः । श्रियाः श्रियः । श्रियाम्, श्रियि । भ्रुवै भ्रुवे । भ्रुवाः, स्रुवः । भ्रवाः, भ्रुवः । भ्रुवाम्, भ्रुवि । अतिश्रियै, अतिश्रिये स्त्रियै पुरुषाय वा । इय्-उव इति किम् ? आध्यै । प्रध्यै । अस्त्रियाः इति किम् ? स्त्रियै । । अपुंसः इति किम् ? यवक्रिये, कटप्रुवे स्त्रियै ॥ ४१ ॥
I
३६ ]
नाम् आमः । ४२ ।
'इय्-उव्’आदेशभावि-ईकार- ऊकारान्तात् असंभविपुमर्थात् स्त्रीवृत्तेः परस्य आमः षष्ठीबहुवचनरूपस्य स्थाने नाम् आदेशो वा भवति, स्त्रीशब्दं वर्जयित्वा ।
श्रीणाम्, श्रियाम् । भ्रूणाम्, भ्रुवाम् । पृथुश्रीणाम्, पृथुश्रियाम् । लम्बभ्रूणाम्, लम्बभ्रुवाम् । अस्त्रियाः इति किम् ? स्त्रीणाम् ॥ ४२ ॥
सदित्-ईत्-त्-नम्-ह्रस्व-आपः । ४३ ।
यतः ईकारात् ऊकाराच्च दै- दास् - दास् - दामः तौ सदितौ तदन्तात् नमन्तात्, हूस्वान्तात्, आबन्ताच्च परस्य आम: स्थाने नाम् आदेशो भवति ।
नदीनाम् । वधूनाम् । स्त्रीणाम् । लक्ष्मीगाम् । नम् - वारीणाम् । त्रपूणाम् । ह्रस्ववृक्षाणाम् । मुनीनाम्। साधूनाम् । पितॄणाम् । आप्-शालानाम् । मालानाम् । 'नम्’ग्रहणं परानपि विधीन् नम् बाधते इति ज्ञापनार्थम्, तेन वारीणि इत्यादि सिद्धम् ||४३|| र-- णां संख्यानाम् । ४४ ।
रेफान्त-षकारान्त-नकारान्तानां संख्यावाचिनां संबन्धिनः आमः स्थाने नाम् आदेशो भवति ।
चतुर्णाम् । परमचतुर्णाम् । षण्णाम् । पञ्चानाम् । सप्तानाम् । र्--णाम् इति किम् ? त्रिंशताम् । बहुवचनं षष्ट्यभिव्यक्त्यर्थम् तेन तत्संबन्धिन एव भवति नान्यसंबन्धिनः- अतिचतुराम् ॥ ४४ ॥
त्रेः त्रयः । ४५ ।
'त्रि' शब्दस्य 'आम्' संबन्धिनः स्थाने त्रय आदेशो भवति ।
"
त्रयाणाम् । परमत्रयाणाम् । 'आम्' संबन्धिविज्ञानात् इह न भवति - प्रियत्रीणाम् । 'तिसृगाम्' इत्यत्र स्पर्धेन बाधा ॥ ४५ ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने नाम्नि प्रथमः पादः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org