________________
नाम्नि प्रथमः पादः
टा-ओसि एत् । ३६ । आवन्तस्य तत्संबन्धिनोः टा-ओसोः परयोः एकारः अन्तादेशो भवति । मालया । मालयोः ॥ ३६ ॥
डे-ङसि-ङम-डीनाम् 2-यास्-यास्-यामः । ३७।
आबन्तस्य संबन्धिनां डे-ङसि-ङसू-डीनां स्थाने यथासंख्यं यै-यास्-यास्याम् इति आदेशा भवन्ति । मालायै । मालायाः । मालायाः । मालायाम् ॥ ३७ ॥
सर्वादेः डस्पूर्वाः । ३८। सर्वादेः आबन्तस्य संबन्धिनां 3-ङसि-ङस्-डीनां यै-यास्-यास-यामः डस्पूर्वा भवन्ति ।
सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् ॥ ३८ ॥ ___ इत्-उतः स्त्रिया वा दै-दाम-दाम-दामः । ३९ ।।
स्त्रीलिङ्गात् इकारात् उकाराच्च परेषां डे-ङसि-ङस्-ङीनां स्थाने यथासंख्यं दैदास्-दास्-दाम् इत्यादेशा भवन्ति वा ।
बुद्धयै, बुद्धये । बुद्ध्याः , बुद्धेः । बुद्ध्याः , बुद्धेः । बुद्धयाम् , बुद्धौ । धेन्वै, धेनवे । धेन्वाः, धेनोः । धेन्वाः, धेनोः । धेन्वाम् , धेनौ । पत्य, पत्ये । प्रियबुद्धयै, प्रियबुद्धये स्त्रियै पुरुषाय वा । स्त्रिया इति किम् ? मुनेः । साधोः ॥ ३९ ॥
___ यवः अपुंसः। ४०।। असंभविपुमर्थात् स्त्रीलिङ्गात् ईकारान्तात् ऊकारान्ताच्च परेषां डे-ङसि--स्ङीनां स्थाने यथासंख्यं दै-दास्-दास-दाम् इत्यादेशा भवन्ति ।
नद्यै । नद्याः । नद्याः । नद्याम् । वध्वै । वध्वाः । वध्वाः । वध्वाम् । लक्ष्म्यै । अतिवध्वै स्त्रियै पुरुषाय वा । य्व इति किम् ? बुद्धये । अपुंस इति किम् ? ग्रामण्ये, खलप्वे स्त्रियै ॥ ४० ॥
वा इय-उवः अस्त्रियाः। ४१ । 'इय्-उ'आदेशभाविनौ यौ ईकार-ऊकारौ तदन्तात् असंभविपुमर्थात् स्त्रीवृत्तेः परेषां डे-ङसि-ङस्-ङीनां स्थाने यथासंख्यं वा दै-दास्-दास्-दाम् इत्यादेशा भवन्ति, स्त्रीशब्दं वर्जयित्वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org