________________
३४ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । वेः डौ । ३० ।
'घि 'संज्ञकात् इकारात् उकाराच्च परो ङि: डौ भवति ।
नौ । साधौ । बुद्धौ । धेनौ ॥ ३० ॥
1
टः अस्त्रिया ना । ३१ ।
अस्त्रीलिङ्गात् 'घि'संज्ञकात् इकारात् उकाराच्च परस्य टावचनस्य 'ना' आदेशो
भवति ।
मुनिना । साधुना । अस्त्रिया इति किम् ? बुद्धया । धेन्वा । 'पुंसः' इति न कृतम् 'अमुना कुलेन' इति नपुंसके 'ना' भावार्थम् । नमि हि गुवर्णोऽसन् भवति । घे इति किम् ? सख्या । पत्या ॥ ३१ ॥
ङिति अदिति एङ् । ३२ ।
अदकारानुबन्धे ङिति स्यादौ परे 'घि'संज्ञकस्य इकारस्य उकारस्य च यथासंख्यम् एङ् भवति ।
1
मुनये । मुनेः । मुनेः । साधवे । सोधोः । साँधोः । बुद्धये । धेनवे | अदिति किम् ? बुद्ध्यै । बुद्ध्याः । स्यादौ इति किम् ? पट्वी ॥ ३२ ॥
नपः जस्-शसोः शिः । ३३ ।
नपुंसकस्य संबन्धिनोः जस्-शसोः स्थाने शिः भवति ।
वनानि तिष्ठन्ति । वनानि पश्य । शकारः सर्वादेशार्थः ॥ ३३ ॥
औतः गीः । ३४ ।
नपुंसकस्य संबन्धिनः औकारस्य गी इति आदेशो भवति । वने तिष्ठतः । वने पश्य । पयसी ॥ ३४ ॥
आपः । ३५ ।
आबन्तस्य संबन्धिनः औकारस्य गी इति आदेशो भवति ।
शाले तिष्ठतः । शाले पश्य । 'आ+आप-आप्' इति आकारप्रश्लेषात् इह न भवति - प्रियशाली पुरुषौ ॥ ३५ ॥
१. पञ्चम्यन्तम् । २. षष्ठयन्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org