SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ नाम्नि प्रथमः पादः शौ वा । २४ । द्वयुक्तेः जक्षपञ्चतश्च परस्य शतृप्रत्ययस्य शौ परे नम् भवति वा । ददन्ति ददति कुलानि । जक्षति, जक्षन्ति कुलानि ॥ २४ ॥ परस्मै अन्तः अत् । २५ । द्वयुक्तेः जक्षपञ्चतश्च परस्य परस्मैपदविषयस्य 'अन्त्' इत्येतस्य अवयवस्य अत् इत्यादेशो भवति । ददति । ददत् । जक्षत् । जक्षति । जक्षतु ॥ २५ ॥ इत्-उतः अस्त्रेः औतः गि गु । २६ । इकारात् उकाराच्च परस्य औकारस्य यथासंख्यं गि गु आदेशौ भवतः, स्त्रीशब्दस्थम् इकारं वेजित्वा । I मुनी तिष्ठतः । मुनी पश्य । साधू तिष्ठतः । साधू पश्य । इत्-उतः इति किम् ? नयौ । वध्वौ । अस्त्रेः इति किम् ? अतिस्त्रियौ पुरुषौ । ' अतिशस्त्री पुरुष' इति “अर्थवद्ग्रहणे नानर्थकस्य " [ न्यायसंग्रहे न्याय १४ ] इति प्रतिषेधो न भवति । इदमेव च ‘अस्त्रेः' इति ज्ञापकम् ' इय् उवू' अपवादेन ' इत्-उत् कार्यमिति । तेन अतिस्त्रयः सहस्त्रयः इत्यादि सिद्धम् । गकारः “गित् " [ च० सन्धिः सू० ३] इति सन्धिप्रतिषेधार्थः ॥ २६॥ जसि एङ् । २७ । इकारस्य उकारस्य च जसि परे यथासंख्यम् एड् आदेशो भवति । मुनयः । साधवः । बुद्धयः । धेनवः ॥ २७ ॥ सखि-पतेः ङिः औत् । २८ । आभ्यां परो ङि: औत् भवति । सख्यौ । पत्यौ ॥ २८ ॥ Jain Education International नियः आम् । २९ । 'नी' शब्दात् परः ङि: आम् भवति । नियाम् । ग्रामण्याम् ॥ २९ ॥ १. वर्जयित्वा पू० । [ ३३ For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy