________________
३२ ।
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । वनानि । कर्तृणि कुलानि । स्वरात् इति किम् ? चत्वारि अहानि ॥ १८ ॥
धुटाम् । १९ । स्वरात् परा या धुटजातिः तदन्तस्य नपुंसकस्य शौ परे अन्त्यात् स्वरात् परो नम् भवति ।
उदश्विन्ति । पयांसि । काष्ठतसि कुलानि । स्वरात् इति किम् ? बहूजि कुलानि । बहुवचनं धुटजातिप्रतिपत्त्यर्थम् ॥ १९ ॥
ततः प्राग वा । २० । धुटजात्यन्तस्य नपुंसकस्य शौ परे ततो धुटजातेः प्राग् वा नम् भवति । बहूञ्जि बहूर्जि कुलानि । सुवल्ङ्गि सुवल्गि कुलानि ॥ २० ॥
अवर्णात् अश्नः शतुर्वा डी-ग्योः । २१ । श्नावर्जिताद् अवर्णात् परस्य शतृप्रत्ययस्य ङी-ग्योः परयोर्वा नम् भवति ।
तुदन्ती, तुदती स्त्री । तुदन्ती, तुदती कुले । करिष्यन्ती, करिष्यती स्त्री, कुले वा । भान्ती, भाती स्त्री, कुले वा । अवर्णात् इति किम् ?. सुन्वती स्त्री। सुन्वती कुले । अश्न इति किम् ? क्रीणती स्त्री। क्रीणती कुले । अत एव अवर्णात् परः शेता भूतपूर्वतया द्रष्टव्यः ॥ २१ ॥
शपू-श्यात् । २२ । शपः श्याच्च परस्य शतृप्रत्ययस्य ङी-योः परयोः नम् भवति ।
भवन्ती स्त्री। भवन्ती कुले। दीव्यन्ती स्त्री । दीव्यन्ती कुले। नित्यार्थ वचनम् ॥ २२ ॥
नथुक्ति-जक्षपञ्चतो नम् । २३ । द्विरुक्तात् जक्षपञ्चतश्च परस्य शतृप्रत्ययस्य सर्वोऽपि नम् न भवति ।
ददती स्त्री। ददती कुले । ददत् , ददतौ। दधत् । जक्षत् । दरिद्रत् । जाग्रत् । चकासत् । शासत् । नमि अनुवर्तमाने पुनर् 'नम्' ग्रहणं 'नम्'मात्रप्रतिषेधार्थम् ॥२३॥
१. 'शतृ'शब्दस्य . प्रथमैकवचनम् । तुद् + श + अतृ इति अवस्थायां तुद + अतृ इति जाते 'तुद'रूपस्य अकारलोपे तुद् + अतृ = तृदतृ इति-स्थिते इदं सूत्रं कथं प्रवर्तते ? यतः अत्र अतृप्रत्ययः अवर्णात् परो न वर्तते इति जिज्ञासायाम् आह- भूतपूर्वतया शता प्रत्ययः अवर्णात परो बोध्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org